Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
View full book text
________________ प्राप्तिनिश्चयः 127 महाप्रमाणत्वात् / सुवर्णदुर्वर्णानि शुभाशुभवर्णसंगहीतानि / हीनप्रणीतानि मानुष्यकदिव्यानि यथाक्रमम् / तानि खलु रूपाण्यभिभूयेति वशे वर्तयित्वा / जानातीति शम[Ms. 120 A]थमार्गेण / पश्यतीति विपश्यनामार्गेण / तथासंज्ञी च भवतीत्यभिभूते नाभि[T. 116 B] भूते वा तन्निरभिमानसंज्ञितामुपादाय / नीलानीत्युद्देशपदम् / नीलवर्णानि सहजां नीलतामुपादाय / नीलनिदर्शनानि संयोगनीलतामुपादाय / नीलनिर्भासानि तदुभयोः प्रभानिर्मोक्ष भास्वरतामुपादाय / यथा नीलान्येवं पीतलोहितावदातानि विस्तरेण वेदितव्यानि / दृष्टान्तद्वयं चकैकस्मिन् सहजसांयोगिक वर्णोद्भावनतामुपादाय। अपरः पर्यायस्त द्यथा नीलमिति पुष्पवस्त्रयोः समानमुद्देशपदम् / नीलवर्णमिति पुष्पमेवाधिकृत्य, तस्य सांयोगिकनीलत्वसंभवात् / नील निर्भासमित्युच्यते पुष्पवस्त्रे अधिकृत्य, द्वयोरपि भास्वरत्वसंभवात् / ' इत्येवं कृत्वा दृष्टान्तेऽपि तद्यथोमकापुष्पं संपन्न वा वाराणसीयकं वस्त्रं नीलं नीलवर्णमित्येवमादिनिर्देश उपपन्नो भवति / एवं पीतादिकं योजयितव्यम् / शिष्टं यथाधिमोक्षेषु / किं शिष्टम् / अध्यात्म रूपसंज्ञी बहिर्धा रूपाणि पश्यतीत्ये/Ms. 120 B]वमादि। तत्पुनर्यथा रूपी रूपाणि पश्यतीत्येवमादि निर्देशानुसारेण द्रष्टव्यम् / / 6155 5-एवमभिभ्वायत नैरालंवनं [T. 117 A] वशे वर्तयित्वाकृत्स्नायतनैः कृत्स्नं स्फरति समन्तानन्ता पर्यन्तं विस्तारयतीत्यर्थः / तानि पुनः कृत्स्नायतनानि दश भवन्ति / तद्यथा पृथिवीकृत्स्नमप्कृत्स्नं तेजःकृत्स्नं वायुकृत्स्नं पोतकृत्स्नं लोहितकृत्स्नमवदातकृत्स्नमाकाशानन्त्यायतनकृत्स्नं विज्ञानानन्त्यायतनकृत्स्नं च। कृत्स्नायतनेषु पृथिव्यादीनि यदि न व्यवस्थाप्येरन् तेनाश्रयमहाभूतविना तदुपादायरूपं नीलादिकं स्फरितुं न शक्येत / तस्याश्रयस्य रूपस्य स्फरणसमृद्धिमुपादायैषां कृत्स्नेषु व्यवस्थानं वेदितव्यम् / शेषं यथासंभवं विमोक्षवदा काशानन्त्यायतनकृत्स्नदि // [Ch. 759 B] तत्र विमोक्षरारम्भः, अभिभ्वायतनः प्रयोगः, कस्नायतनैः परिनिष्पतिविमोक्षाणां वेदितव्याः // 6156 "अरणा' विहारी येषां सत्त्वानामाभासं गन्तुकामो भवति तेषा 1. Ms. या. 2. T. & Ch. omit अपरः पर्यायस. 3. Ms. adds अपि. 4. Ms. योरितिपि for योरपि. 5-5. Ch. omits एवमभिभ्वा०...विस्तारयतीत्यर्थ:. 6. Ms. adds न. 7. Ms. न्त. 8. T. adds योजयितव्यम्, 9. T. Chapter IX. 10. Ms. श्रावर for भर.

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188