Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 165
________________ 134 अभिधर्मसमुच्चयभाष्यम् - 5 174 [Ch. 762 C] विमोक्षेषु द्वाभ्यां विमोक्षाभ्यां निर्माणकर्माभिनिहरति / तृतीयेन शुभे' निर्माणे न संक्लिश्यते / चतुभिरार्य विमोक्षः शान्तेषु मोक्षेषु न सज्जते / पश्चिमेन परमप्रशान्तेनार्यविहारेण विहरति / तथा तथाऽधिमोक्षार्थश्चं विमोक्षो वेदितव्यः / $ 175 अभिभ्वायतनादीनां कर्म पूर्ववत् तन्निर्देशानुसारेणेव योजयितव्यम् / . 176 अरणाया प्रादेयवचनो भवति, परचित्तानुरक्षणप्रधानतया यथानुरूपं वचनात् // $ 177 प्रणिधिज्ञानेन[T. 123 B]बहुमतश्च भवति लोकस्य, सर्व जानातीति गौरवितत्वात् // $ 178 प्रतिसंविद्भि[As. p. 100]र्देशनया सत्त्वचित्तानि संतोषयति, बहुविचित्रैः प्रकारैः संशयच्छेदनात् / / 5179. ऋद्धिदिव्यश्रोत्रपरचित्तज्ञानपूर्वेनिवासच्युत्युपपादास्रवक्षयाभिज्ञाभिर्यथाक्रमं कायकर्मादिना शासने आवर्जयति। दिव्यश्रोत्राभिज्ञया सर्वरुतप्रकाराभ्युपपत्तितो वाक्कर्मणाऽऽवर्जनं वेदितव्यम् // 5180. पाश्रयपरिशुद्धया यथाकाममाश्रयस्योपादानस्थान[Ms. 127 B]परित्यागानधिकृत्य संचिन्त्य भवोपपत्तिपरिग्रहणादीनि त्रोणि वेदितव्यानि / (i) प्रालंबनपरिशुद्धया धर्मवशवर्ती भवति, (ii) चित्तपरि[Ch. 763 A]शुद्ध्या समाधिवशवर्ती, (iii) ज्ञानपरिशुद्धया सद्धर्म धारयति / 181. बलेषु द्वाभ्यां बलाभ्यामभ्युदयमार्ग देशयति शेर्षेनिःश्रेयसमामेतावच्च बुद्धानां भगवतां करणीयम् / तत्र (i) स्थानास्थानज्ञानवलेन भगवनिर्हेतुकोऽभ्युदयः प्रकृतीश्वरादिहेतुको वेत्येवमहेतुविषमहेतुवादं प्रतिक्षिपति / (il) कर्मस्वकताज्ञानबलेन स्वयमकृतमपि कर्मागच्छतीत्येवमकृताभ्यागमवादं प्रतिक्षिपति, यतः सम्यगविपरीतं [T. 124 A] सुगतिमार्ग देशयति / (iii) ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन सत्त्वानां चित्तचरितानि चेतःप्रचराननुप्रविशति / (iv) इन्द्रियपरापरज्ञानबलेन देशनाभाजनतां श्रद्धादीन्द्रियपरिपाकमनुप्रविशति / (v) नानाधिमुक्तिज्ञानबलेनाशयं हीनप्रणीताधिमुक्तिकतामनुप्रविशति / (vi) नानाधातुज्ञानबलेनानुशयसमुद्घातनशक्यवलेशतामनुप्रविशति / (vii) सर्व[Ms. 123 A]त्रगामिनीप्रतिपज्ज्ञानबलेनालंबनं श्रावकयानं महायानं वा देशनाधर्म 1, Ms. adds न. 2. T. & Ch. आरूप्य for आर्य. 3. Ms. adds त.

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188