Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 150
________________ प्राप्तिविनिश्चयः 119 परिणाम्यते तच्च प्रत्येकबुद्धानामनाचार्यकाभिसंबोधाय जन्मान्तरे परिणमति तदन्यपारिणामिकम्। (v) यत्तत्रैव जन्मनि सत्यप्रतिवेधाय संवर्तते तदैकजन्मिकम् / (vi) यत्तत्रैवासने तदेकासनिकमिति // 6145 (iii) कायसाक्षी विमोक्ष'लाभ्यनागामी, अष्टौ विमोक्षान कायेन साक्षात्कृत्वोपसंपद्य विहरणात् / अष्टौ विमोक्ष। रूपी रूपाणि पश्यतीत्येवमादय: पश्चानिर्देक्ष्यन्ते / (iv) प्रज्ञाविमुक्तः प्रज्ञाविपक्षक्लेशावरणमात्राशेषप्रहाणात् / (v) उभयतो भागविमुक्तः सर्वक्लेशसमापत्त्यावरणाभ्यां यो विमुक्तः / (vi) स्रोता. पत्तिफलप्रतिपन्नक एकासनिकं नि[Ms. 111 B]धभागीयमारभ्य यावदाद्यं फलं न प्राप्नोति / / [As. P. 89] कः पुनर्दशनमार्गावसाने आद्यं फलं प्राप्नोति / [Cb. 754 C] यः प्रदेशवैराग्येणापि कामेभ्योऽत्रोत रागः सम्यक्त्वं नियाममवक्रामति / यस्तु पूर्वं लौकिकेन मार्गेण कामावचरान् भावनाप्रहा[Ms. 112A]तव्यान् षट्प्रकारान् प्रहाय यत्र यो वीतरागो भवन् पश्चात्सम्यक्त्वं नियाममवक्रामति स षोडशे. चित्तक्षणे सकृदागाम्येव भवति / नवापि प्रकारान् प्रहाय कामवीतरागो भवन् यो नियाममवक्रामति सोऽनागाम्येव भवति / , सर्वदर्शनप्रहातव्यप्रहाणेऽपि त्रयाणामेव संयोजनानां प्रहाणात् स्रोतापनवचनम्, एषां मोक्षप्राप्तिविबन्धनत्वेन प्राधान्यात् / तथाहि सत्कायदष्टया पञ्चोपादानस्कन्धानात्मत' आत्मीयतश्चाभिनिवेश्यालयारामतया दुःखानोच्चलति / उच्चलितोऽपि कथंचिन्मोक्षं प्रति शीलव्रतपरामर्शेन विचिकित्सया चासन्मार्गाभिनिवेशात्सन्मार्गसंशयनाच्च मिथ्या निर्याति सम्यक्त्वमनिर्याति / / [Ms. 112 A] पुनः सत्कायदृष्ट्या ज्ञेये विप्रतिपद्यते, दुःखमात्र [आ] त्मात्मीयलक्षण' समारोपणात् / शीलव्रतपरामर्शन दृष्टौ, तया शुद्धिप्रत्ययनात् / विचिकित्सया प्रतिपक्षे, रत्नत्रयानिश्चयनादिति / / (viii) सकृदा[गा]मिफलप्रतिपन्नकः दर्शनमार्गावं कामावचरस्य यावन्मध्यमध्यस्य क्लेशप्रकारस्य प्रहाणमार्गे यः पुद्गलः / (ix) सकृदागामी मध्यमृदोः क्लेशप्रकारस्य प्रहाण[A. 108 B]मार्ग परिसमाप्तौ यः पुद्गलः / (x) अनागामिफलप्रतिपन्नकः [Ch. 755 A] सकृदागामिफलादूर्व कामावचराणां मृद्वधिमात्र 1. T. & Ch. gefaata Cf. As (G.) P. 36. : 2. Ms. ta for ata. 3. Ch. adds पश्चात्. 4. Ch. adds स षोडशे चित्रक्षणे श्रोतापन्न एव भवति. Ms. alha for at. 6. Ms. न. 7. Ms. णा. 8. Ms. गः.

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188