Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 136
________________ धर्मविनिश्चयः 105 पारमितापरिपूरणात् / (vi) अकृच्छत्वपरमत्वमनुमोदनामात्रेण परदानादीनां पारमितापरिपूरणात् / (vii) विभुत्वपरमत्वं गगनगञ्जसमाध्यादिभिर्दानादिपरिपूरणात् / (viii) परिग्रहपरमत्वं निर्विकल्पज्ञापरिगृहोतत्वात् / (ix) प्रारम्भपरमत्वमधिमुक्तिचर्याभूमावधिमात्रायां क्षान्तौ। (x) प्रतिलम्भपरमत्वं प्रथमायां भूमौ / [T. 95B.] (xi) निस्यन्दपरमत्वं तदन्यास्वष्टासु / (xii) निष्पत्तिपरमत्वं दशम्यां भूमौ ताथा गत्यां च बो[Ms. 97 A]धिसत्त्वपरिनिष्पत्त्या बुद्धपरिनिष्पत्त्या चेति // पुनः परमैरीहिता इताश्चेति पारमिताः, बुद्धबोधिसत्त्वश्चेष्टिता गताश्चेत्यर्थः / / पुनर्जेयपारंगताः पारमिताः, बुद्धत्वे प्रतिष्ठिता इत्यर्थः / / पुनः परानात्मानं च परमामीति तारयन्तीति पारमिता:, परानात्मानं च दुःखार्णवमतिकामन्तीत्यर्थः // इदं तावत्साधारणं निर्वचनम् // प्रत्येकं (i) पुनर्दायकदारिद्रयापनयनाद्दानम्, दाहापनयनाद्वा प्रतिग्राहकानाम् / (ii) शान्तेन्द्रियालम्भनाच्छुभगतिलीयनाच्छैत्यालयाच्च शीलं यथाक्रममिन्द्रियेषु गुप्तद्वारतावाहनात् सुगतिगमनहेतुभावनादविप्रतिसाराद्यानुपूर्व्या यावनिर्वाणा'श्रयत्वादिति / (iii) क्रोधक्षारतिरस्करणात् क्षतिचित्तागति"तिरस्करणात् क्षेमाविष्करणाच्च क्षतिनां10 [Ch. 748 B] क्षान्तिः / क्षतिचित्तं पुनर्येनापकारिणां प्रत्यपकारः क्रियते तस्यागतस्यानया विलोपनं तिरस्करणं वेदितव्यम् / क्षतमेषां वैरं विद्यत इति क्षतिनस्तेषामभयप्रकाशनं क्षेमस्याविष्करणं वे[Ms. 97 B]दितव्यम् / (iv) वधवृद्धीहायोगाद्वोर्यम् / तत्र वधायेहा[T. 95 A]ऽकुशलधर्मविगमाय द्वाभ्यां सम्यक्प्रहाणाभ्याम्, वृद्धये ईहा कुशलधर्मसमुदागमाय द्वाभ्यां सम्यकप्रहाणाभ्यां च। (v) धारणयमनसंयमनविनयननयनाद्ध्यानम् / तत्र धारणमालंबने चित्तस्य, यमनं विक्षेपतः, संयमनं चित्तस्य, विनयनं पर्यवस्थानानां विष्कम्भणम्, नयनं विभुत्वस्य प्रापणं वेदितव्यम् / (vi) परप्रणीतज्ञानात् 1. T. lacks aifa. Ms. व्य. Ch. adds. दानादिपारमिता:. Ms. दशभूम्या. Ms. त. 6. Ms. परमा० for पराना 7. T. adds भादि. 8. Ms. चिन्ता. 9. T. reads आगति, Ch. reads अगति. 10. T. lacks क्षतिना. 11. Ms. नोप° for °नाप. ' 12. Ms. ले. 2.

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188