Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

View full book text
Previous | Next

Page 134
________________ धर्मविनिश्चयः 103 प्रयुज्यते / ध्यानेन क्लेशं विष्कम्भयति / प्रज्ञयानुशयं समुद्घातयति / इमास्तिस्रः क्लेशप्रतिपक्षा वेदितव्या / / 6131 B. तत्र पारमितालक्षणम् / बोधिसत्त्वस्य दानपारमिता कतमा / यद्बोधिसत्त्वस्य वोधिसत्त्वधर्मतायां व्यवस्थितस्य बोधिचित्तं निश्रित्य करुणापुर:सरेण चेतसा सर्वास्तिपरित्यागे का[Ms. 94 B]यवाङ्मनस्कर्म / एवं च कृत्वा दानपारमितायाः लक्षणं गोत्रतः प्रणिधानत अाशयतो वस्तुत: स्वभावतश्च निर्दिष्टं वेदितव्यम् / तद्यथा बोधिसत्त्वधर्मता गोत्रम्, वोधिचित्तं प्रणिधानम्, करुणापुरःसरं चेत आशयः, सर्वास्तिपरित्यागो वस्तु, कायवाङ्मनस्कर्म स्वभाव इत्येवं यावत प्रज्ञापारमिता विस्तरेण वेदितव्या: / अयं तु विशेषः / [Ch. 747B] श लक्षान्तिवीर्यपारमितास. यथाक्रम सर्वसंवरसमादानानुरक्षायां सर्वा'पकारदःख. मर्षणाधिवासनायां सर्वकुशलधर्मसमुदानयनतायां यत्कायवाङ्मनस्कर्मेति वेदितव्यम् / ध्यानपारमितायां सर्वाकारकायवाङ्मनस्क [T. 92 A] मंविभुत्वे सर्वाकारा चेतस:. स्थितिरिति / प्रज्ञापारमिता [यां] सर्वाकारकायवाङ्मनस्कर्मविभुत्वे यः सर्वाकारो धर्मप्रविचय इति वक्तव्यम्। शेषं दानवदेव सर्व वेदितव्यम् / / : पुनर्यद्दानं सर्वज्ञतामारभ्य सर्वज्ञतायै संवर्तते। सर्वज्ञतां परिगलाति स[Ms. 95 A]र्वज्ञताकृत्यं च करोति तद्दानपारिमितेत्युच्यते / एतानि पुनश्चत्वारि पदानि यथाक्रममारम्भतो वासनातः कायतो निस्यन्दतश्च वेदितव्यानि / (i) तत्रारम्भतः सर्वज्ञतामारभ्योत्पन्नोत्पन्नस्य तत्र परिणामनात् / (ii) तदेव पुनर्दानं संतति वासयते, यत आयत्यां सर्वज्ञताय संवर्तते। (iii) तदेव यदा परिपूर्णं भवति तदा धर्मकायपरिनिष्पादनयोगेन सर्वज्ञतां परिगल्लाति / (iv) तत उत्तरकालं सांभोगिकनेर्माणिककाय निस्यन्दमुखेन सर्वज्ञताकृत्यं करोति / एवं यावत्प्रज्ञापारमिता वेदितव्याः / / 6131 C. अनुक्रमः / उत्तरोत्तरसंनिश्रयतामुपादाय दानपारमितयाऽऽध्यात्मिकबाह्यसर्ववस्तुपरित्यागाभ्यासात्कायजीवितनिरपेक्षो वोधिसत्त्वो महान्तमपि भोगस्कन्धं प्रहाय शीलसमादानं करोति / शोलानुरक्षी - आक्रुष्टेन मया न प्रत्याक्रोष्टव्यम् - [T. 92 B] इत्येवमादिभि: प्रकारैः [Ch. 747 C] क्षमो भवति। क्षमः शीतादीनाम्. तन्निदानं प्रयोगास्रसनादारब्धवीर्यो भवति / 1. Ms. has another fa here. 2. Ms. न्ति. 3. T. lacks सर्व. 4. Ms. न्ते. 5. Ms. व्य. 6. T. lacks महान्तम.

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188