Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
View full book text
________________ धर्मविनिश्चयः 101 6 129. [Ch. 746B] ' यदुक्तं स्थविरानन्देन-पञ्चभिरायुष्मञ्छारिपुत्रधर्मैः समन्वागतो भिक्षलघु च गृह्णाती'त्यत्र सूत्र तैरेव पञ्चभिर्धमैलघुग्रहणादीनि चत्वारि यथायोगं वेदितव्यानि / चत्वारि कथं कृत्वा (i) धर्मकुशलो लघु गह्णाति बाहश्रुत्यात्प्रायेण भिन्न[Ms. 92B]पदव्यञ्जनतया। (ii) अर्थकुशलो बहु गृह्णाति, अभिधर्मादिलक्षणज्ञत्वात्, स्कन्धधात्वादिकथावस्त्वधिकारेण प्रभूतग्रन्थसंकलनतः / (iii) व्यञ्जनकुशलो (iv) निरुक्तिकुलश्च सूदगृहीतं गृह्णाति, सुनिरुक्त व्यञ्जन[T 90A]ज्ञ त्वादात्मात्मेति जनपदनिरुक्तिमनभिनिविश्यानुव्यवहारज्ञ"त्वाच्च ग्रन्थार्थयो.रविपरोतग्रहणतः / (v)पूर्वान्तापरान्तानुसंधिकुशल उद्गृहीतं न नाशयति, पूर्वमुद्गहीतान्धर्मान्निश्रित्य पश्चान्निःसर्तव्यमिति बुद्धा भिसंधिज्ञ'त्वादधिगमेन तत्सारादानतः / / 5130. धर्मविहारी भिक्षधर्मविहारि1भिक्षरिति भदन्तोच्यत इत्यत्र सूत्रे भगवता समस्तेन श्रुतचिन्ताभावनाविहारेण धर्मविहारी भवति, नान्यतर. प्रयोगमात्रेणेति संदशितम् / तत्र पर्याप्तिस्वाध्याय [Ch. 746C]देशनावहुला वितर्कणा बहुलाश्चेत्यनेन केवलं श्रुतचिन्ताप्रयुक्ता न भावनाप्रयुक्ता योगादिरिञ्चनादतो [न] धर्मविहारिणो व्यवस्थाप्यन्ते। योऽपि कश्चिच्छुतचिन्तामनागम्य केवलं भावनाप्रयुक्तः स्यात्सोऽपि न धर्मविहारी व्यवस्थाप्यते / तत एव तावद्धर्म[Ms. 93A] विहारिणं भिक्षुमारभ्य इह तु11 भिक्षुर्द्धर्मं पर्याप्नोति सूत्रं गेयमिति विस्तरेणोक्त्वा पश्चादाहन रिञ्चति योगमित्येवमादि, यथा विज्ञायेत श्रुतं चिन्तां भावनां चागम्य तदुभयविहारेण धर्मविहारोति / न रिञ्चति यागमित्येवमादिना समाधिप्रयोगासंतुष्टिभ्यां भावनामयं13 संदशितम्। समाधि. 1. Ch. & Asv (T) add as follows-कथं धर्मकुशलो भवति / कथमर्थकुशलो . भवति / कथं व्यञ्जनकुशलो भवति / कथं निरुक्तिकुशलो भवति / कथं . . पूर्वान्तापरान्तानुसंधिकुशलो भवति / एते पञ्च प्रश्नाः सूत्रपदानुसारेण वेदि तव्याः / 2. Ch & Asv (T) add बहु गृह्णाति सूद्गृह्णति, उद्गृहीतं न नाशयति 3. Ms. सु. 4. T lacks उद्गृहीतं. 5. Ms. तं. 6. Ms. ज्ञा. 7. Ms. ज्ञा. 8. T. lacks बुद्ध. Ch. तथागत for बुद्ध. 9. Ms. ज्ञा. 10. Ms. री. T. lacks धर्मविहारिभिक्षुः. 11. T. and Ch. have भगवता. 12. Ms रे 13. Cb. adds प्रज्ञा.

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188