Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 99
________________ 68 अभिधर्मसमुच्चयभाष्यम् वका[Ms. 61 A]शश्च न प्रज्ञायते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै / कथं कृत्वा ब्रह्मचर्यवासो न भवति / तीव्रक्लेशस्य प्रतिसंख्याय सहदुःखेन सहदौर्मनस्येन शीलपरिपालनात् / यदि तद्विपाकस्तथैव सहदुःखेन सहदौर्मनस्येनानुभूयेत वृथा तत्परिपालनं स्यात् / पारदारिकप्रभतीनां च सहसुखेन सहसौमनस्येन दौ:शील्यकरणाद्यदि तद्विपाकस्तथैवानुभूयेत वृथा तद्विरतिः स्यादित्येवं कृत्वा ब्रह्मचर्यवासो न भवति // कथमवकाशश्च न प्रज्ञायते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियाये / अत एव तदुपनिषद्भतस्य ब्रह्मचर्यवासस्य दुःखविपाकत्वादिति / एवं च [T.61 A] कृत्वा सुखसहगतस्य कर्मणः सुखसहगत एव विपाको दुःखसहगतस्य दुःखसहगतो-1ऽदुःखासुखसहगतस्य तत्सहगत एवेति नियमः प्रतिषिद्धः / / अत्र यस्त्वेवं....यथावेदनीयं...यथावेदनीयमित्येवमादिना सुखसहगतस्य कुशलाकुशलस्य यथायोगमायत्यां सुखदुःखादुःखासुखवेदनीयस्य सुखादिको विपाकोऽनज्ञातः / -एवं दुःखादुःखासुखसहगतस्य सुखादिवे[Ms. 61 B]दनीयस्य सुखादिको विपाकोऽनुज्ञायत इति- / / 672 A. (i) [As. P. 57, Ch. 730 A] प्रवजितस्य संवरः पञ्चविधो भिक्षसंवरो यावच्छामणेरीसंवर इति / स दुश्चरितविवेकचरितं कामविवेकचरितं च पुदगलमधिकृत्य व्यवस्थापितः / तथाहि स तादशः शक्नोति यावज्जीवं प्राणातिपाताद ब्रह्मचर्याच्च विरन्तुमिति / उपासकोपासिकासंवरो दुश्चरितविवेकचरितमधिकृत्य नो तु कामविवेकचरितम् / अतः एवास्य यावज्जीवं काममिथ्याचारविरतिर्व्यवस्थाप्यते नाब्रह्मचर्यविरतिरिति / उपवाससंवरो नैव दुश्चरितविवेकचरितं न कामविवेकचरितम् / अत एवास्याहोरात्रिक उपवाससंवर: प्रज्ञप्तः, [T. 61 B] शनैस्तदुभयाभ्यसनार्थमिति / यथा पण्डपण्डकानां भिक्षुभिक्षणीपक्षोपासनायोग्यत्वादुपासकत्वप्रतिषेधः, एवमुभयव्यञ्जनानामपि [Ch. 730 B] स्त्रीपुरुषक्लेशसमुदाचारेणोभयपक्षोपासनायोग्यतेति न ते पृथगुक्ताः / (ii) ध्यानसंवरो दौःशील्यसमुत्थापकानां लोभादीनां कामावचराणां क्लेशोपक्लेशानां विष्कम्भणप्रतिपक्षेण बीजोपघाते सति प्रदेश[Ms. 62 A]वैराग्येणापि कामेभ्यो वीतरागस्य या तस्माद्वौःशील्याद्विरतिः / यावत्ततीयध्यानवीतरागस्य दूरीभावप्रतिपक्षण तेषामेव दौःशील्यसमुत्थापकानां सुरां बो जोपघातो वेदितव्थः / चतुर्थध्यानवीतरागस्य त्वारूप्येषु रूपाभावाच्छोलसंवराव्यवस्थानं वेदितव्यम् // 1-....-1 "दु:ख...सहगतो" is in the bottom margin of Ms. 2. T. पुरुषपुद्गलस्य. 3-....-3 T. drops "एवं....इति", but Ch. has it. 4. Ms. °जीवितुं for °जीत्रं. 5. Ms. य. T, and Ch. प्राणातिपातादिदुश्चरिताद',

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188