Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
चतुर्थी ] जयाऽलङ्कृतः
२८१ गित्वेनोद्देश्यत्वं यदि संप्रदानत्वं स्यात्तदा पितृणामपि तथात्वाक्षतेः, पित्रपेक्षयापि दानत्वं स्यात् । न हि श्राद्धे पितृणां स्वत्वभागित्वेन नोद्देश्यत्वम् । पितरेतत्तेऽन्नं स्वधेत्यादिश्राद्धरूपत्यागाभिलापस्य स्वधार्थे त्यागे चतुर्थ्याः स्वत्वभागित्वेन पित्रादेरुद्देश्यत्वबोधकत्वात् । स्वत्वभागित्वेनोद्देश्यस्यापि पित्रादेः स्वीकाराभावान्न स्वत्वं ब्राह्मणानां तत्रानुद्देश्यत्वेऽपि स्वत्वं प्रतिपत्तितो जायते । अनुद्देश्यत्वेऽपि च संप्रदानत्वमुपपादितमेव । पितृणामिव ब्राह्मणानामपि च स्वत्वभागित्वेनोद्देश्यत्वमप्यविरुद्धम् । धात्वर्थतानवच्छेदकफलभागितया यत्र संप्रदानत्वं वृक्षायोदकं सिञ्चति, पत्ये शेत इत्यादौ तत्रोद्देश्यत्वांशनिवेश आवश्यकः । यत्रान्योद्देशेन क्षिप्तजलस्य दैवावक्षसंयोगोऽन्योद्देशेन शयनादितश्च पत्यादेः फलसबन्धस्तत्र तथा प्रयोगविरहात्। अत एव तत्र चतुर्थ्यर्थः वृक्षादिनिष्ठतया कत्रंभिप्रेततत्तत्फलं प्रति जनकत्वम्। तच्च सेकादिक्रियायामन्वेति । भाक्तं च तत्र संप्रदानत्वम् । उद्देश्यत्वागर्भसंप्रदानत्व एव लाघवाच्छक्तेरितरत्र लक्षणाया अभ्युपगमात् । पितृभ्यो दद्यादित्यादावनिर्धारितकर्तृकसंप्रदाने चतुर्थी । तत्त्वं च तत्र त्यागजन्यस्वत्वभागितयोद्देश्यत्वमेव । अथ जनान्तरस्य वृक्षादिनिष्ठजलसंयोगादिरिच्छाविषयोऽन्येन च जनेनान्योद्देशेन क्षिप्तजलादेव॒क्षादिसंयोगस्तत्रापि वृक्षायोदकमासिञ्चति जन इत्यादिप्रयोगापत्तिः । तत्तद्वयक्तित्वस्य पदेनानुपस्थापनात्। तेन रूपेण विशेष्यभूतकर्तव्यक्तीनामिच्छांशे भानासंभवादुपस्थितजनत्वावच्छिन्नेच्छाविषयत्वस्य च वृक्षसंयोगादावबाधात् । एवं तदीयकालान्तरीणेच्छामादायाप्यतिप्रसङ्गतादवस्थ्यमिति चेन्न । वृक्षादिनिष्ठत्वेनेच्छैव हि चतुर्थ्यन्तार्थः । तस्याञ्च स्वविषयसंयोगादिजनकत्वस्वजन्यत्वोभयसंबन्धेन सेकादिक्रियायामन्वयः। उक्तस्थले च यत्क्रियाव्यक्त्या जलसंयोगादिवृक्षादौ जन्यते तत्र कालान्तरीणपुरुषान्तरीणेच्छायाः स्वविषयसंयोगा

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368