Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 301
________________ चतुर्थी ] जयाऽलङ्कृतः २६३ क्लयादिधर्म एवार्थः। अभूततद्भावे तदननुशासनात् । अभूतस्य पूर्वकालावच्छेदेन शुक्लादिभावरहितस्य तद्भावः शौक्लयादिः । अथ वा अभूतः पूर्वकालावच्छेदेन धर्मिण्यविद्यमानस्तद्भावः शौक्लयादिः, शुक्लीभवतीत्यादौ तु दर्शिता गतिः । न चाभूततद्भावपर्यन्तस्य विप्रत्ययवाच्यत्वे गौरवाच्छुल्लादिपदोपस्थाप्यपदार्थतावच्छेदकशौक्लयाद्यन्वयि अभूतत्वं च्चिप्रत्ययार्थोऽस्तु। शुक्लतर इत्यादौ तरबाद्यर्थोत्कर्षस्येव च्व्यर्थस्यापि व्युत्पत्तिवैचित्र्येण पदाथतावच्छेदकेऽन्धयसंभवादिति वाच्यम् । मन्मतेऽपि शौलयादिभावस्यैव विप्रत्ययार्थतोपगमेन गौरवानवकाशात् । पूर्वकालावच्छिन्नस्वनिष्ठाभावप्रतियोगित्वसहितस्याधेयत्वस्य प्रत्ययार्थे प्रकृत्यर्थस्य संबन्धतया भानोपगमात् । शौक्लयादावभूतत्वलाभेनैव जलपरमाणुः शुक्लीभवतीति प्रयोगाप्रसङ्गात् । शौक्लथादेर्धर्मत्वेनैव वाच्यता न तु ताद्रूप्येणेति न शक्त्यानन्त्यम्। प्रकृत्यर्थतावच्छेदकतत्तद्धर्मनिष्ठाधेयताविशेषाणामेव संवन्धतया भानोपगमाद्धर्मान्तरस्याभूतत्वमादाय न जलपरमाणुः शुक्लीभवतीत्यादिप्रसङ्गः । प्रकृत्यर्थतावच्छेद कगतप्रागविद्यमानत्वस्य च्चिप्रत्ययार्थत्वमते तु शुक्लीभवतीत्यादौ प्रकृत्यर्थतावच्छेदकशौक्लयाद्यभावस्य प्रागपि कचिद्विद्यमानतया तदभावान्वये योग्यतानुपपत्तिः । तत्तद्धर्मिण्यविद्यमानत्वस्य व्यर्थत्वे शक्त्यानन्त्यमितिपूर्वकालावच्छिन्नोऽभाव एबाविद्यमानत्वम् । तस्य च प्रकृत्यर्थतावच्छेदके सामानाधिकरण्यसहितप्रतियोगित्वसंबन्धेनान्वयो वाच्यः। प्रकृत्यर्थे च तादृशसंबन्धेनाभावविशिष्टस्य वैशिष्टयभानमुपयेम् । अन्यथाऽन्यत्र स्वाभावसमानाधिकरणस्याशौक्लयादेः सर्वदाऽशुक्लकाकादावपि सत्त्वेन काकोऽशुक्लीभवतीति प्रयोगः स्यात् । अत्राभावरूपपदार्थान्तरविशिष्टप्रकृत्यर्थतावच्छेदकवैशिष्टयभानं च प्रकृत्यर्थे न संभवति । प्रकृत्या स्ववृत्तिसहकारेण स्वार्थे यादृशविशेषणावच्छि

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368