Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 335
________________ नैयायिकमतम् ] जयाऽलङ्कृतः ३२७ प्रश्नोत्तरयोः समानप्रकारकबोधजनकत्वानुरोधेन तथात्वम् । __अत्र केचित् । पचतीतिवाक्यजन्यबोधे सति यत्नत्वावच्छिन्ने वर्तमानत्वसंशयानुदयात्तत्र यत्नत्वावच्छिन्ने वर्तमानत्वबोधकत्वसिद्धौ तदवच्छिन्ने शक्तिर्लाघवासिध्यति। न हि यत्नाविनाभूतक्रियाविशेषलिङ्गकानुमानलभ्येन यत्नत्वावच्छिन्नेन समं वर्तमानत्वान्वयबोधकत्वमाख्यातस्यार्थाध्याहारमतेऽपि संभवति, लडादिकृतवर्तमानत्वान्वयबोधे लडादिसमभिव्याहृतधात्वन्यतरजन्यविशेष्योपस्थिते: कारणताया आवश्यकत्वात् । अन्यथा निराकाङ्क्षयत्नादिपदमात्राद्यत्नाद्युपस्थितावपि तत्र वर्तमानत्वादेर्लडादितो बोधप्रसङ्गात् । न चार्थाध्याहारवादिनां द्वारं पिधानं कृतिरित्यादितो द्वारकर्मककृतेरिव पचति यत्न इत्यादितः पाकयत्नो वर्तमान इत्याद्याकारको वर्तमानत्वादेर्बोध इष्ट एवेति वाच्यम् । परस्परसाकाङ्क्षपदार्थद्वयान्वयाबोध एवाध्याहृतस्येव निराकाङ्क्षपदादुपस्थितस्याथस्य विषयतायास्तैरुपगमात् । तत्रान्वयानुभावकसाकाङ्क्षपदसत्त्वात् । प्रकृते चान्वयबोधस्याऽऽकाङ्क्षानुपयोगिपदार्थान्वयविषयकत्वेन तेषामप्यसंमतत्वात। तत्स्वीकारे निराकाङ्क्षस्याप्यनुभावकत्वस्वीकारापत्तेः । शाब्दबोधे आकाङ्क्षानुपयोगप्रसङ्गाच्चेति तन्न। तात्पर्यलिङ्गन यत्नत्वावच्छिन्ने वर्तमानत्वानुमितेरेवोपगमात् । ताशवर्तमानत्वप्रतीतौ शाब्दत्वप्रतीते: सविवादत्वादित्याहुः। - अत्र नैयायिकाः। रथो गच्छतीत्यादावाश्रयत्वमेवाख्यातार्थो न तु व्यापारः। अन्यदीयगमनानुकूलनोदनादिविलक्षणव्यापारवति गच्छतीत्यप्रयोगात । एवं च काष्ठं पचतीत्यादिप्रयोग एव व्यापारशक्तिमाख्यातस्य साधयेद् यदि स्वारसिकः स्यात् । तदेव न । न हि चैत्रः पचतीत्यादिप्रयोगेण काष्ठं पचतीत्यादिप्रयोगस्याविशेषः । एवमचेतने स्वरसतः कर्तपदाप्रयोगात् कृतोऽपि यत्नत्वविशिष्टोऽर्थः । एवं चैत्र एव पचति पाककर्ता न त्वचेतनं काष्ठादीत्यादिप्रयोगाल्लका

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368