Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 340
________________ ३३२ व्युत्पत्तिवादः [पाख्याते वबोधस्यैव स्वीकरणीयतया न संसर्गतासंभवः । अथाख्यातस्य कर्तत्वशक्ततावच्छेदकं रूपं दुर्वचम् । न च तिङ्त्वं तथा तसादिसाधारणस्य तिङ्त्वस्य दुर्वचत्वात्। न च पाणिनीयसङ्केतसंबन्धेन तिङ्पदवत्त्वमेव तित्वं तिबाद्यष्टादशसु तत्पदसंकेतग्राहकं च आदिरन्त्येनेति सूत्रमेव तत्संकेतमविदुषामनधीतपाणिनीयतन्त्राणांतिप्त्वादिना शक्तिभ्रमादेव शाब्दबोध इति वाच्यम् । एवं सति घटादिवाचकघटादिपदेष्वपि कस्य चिच्छब्दस्य पुरुषविशेषीयसंकेतसंभवेन तुल्ययुक्तया तत्रापि तच्छब्दस्यैव शक्ततावच्छेदकतापत्त्या तिबादिषु पाणिनेस्तिपदसंकेतवत्तत्र शब्दान्तरसंकेतस्यापि अन्यपुरुषीयस्य संभवात् । तत्तच्छब्दानामपि प्रवृत्तिनिमित्ततायाः सुवचत्वाद्विनिगमनानुपपत्तेः। अत्र केचित् । तिबादिस्थानिनो लकारम्य लत्वजातिपुरस्कारेण कृतिवाचकता। पचतीत्यादौ लकाराश्रवणेऽप्यादेशेन तिबादिना स्थानिनः स्मरणात्तत एवार्थोपस्थितिः। आदेशादेशिभावमविदुषां तु तिप्त्वादिना शक्तिभ्रमादेवार्थोपस्थितिः। यत्र तिवादेलादेशत्वज्ञानं नास्ति श्रुतलकाराचार्थोपस्थितिस्तत्र पचतीत्यादिवाक्याच्छाब्दबोधवारणाय पचतीत्याद्यानुपूर्वीज्ञानजन्यबोधे तिबादेर्लादेशत्वज्ञानमपि हेतुः। न चोक्तस्थले धातुसाकाङ्क्षत्वज्ञाने भवत्येव शाब्दबोधस्तदसत्त्वे च कारणाभावादेव नापत्तिरिति वाच्यम् । पचतीत्यादौ तिबादिना लकारस्योपस्थापनेऽपि तत्तद्धातुसाकाङ्क्षतया तत्स्मारकाभावेन शाब्दबोधानुपपत्तेः लकारे धातुसाकाङ्क्षत्वग्रहस्य शाब्दबोधहेतुत्वासंभवात् । न हि तत्तद्धातुसाकाङ्क्षत्वेन लस्तिबादिस्थानीयेन तद्रूपावच्छिन्नमेव तिबादिः स्मारयेत् अपि तु लत्वेनैव तथात्वमिति। एवं तत्तद्धातुपदाव्यवहितोत्तरत्वरूपतत्साकाङ्क्षत्वेन येन पुंसा न लकारः श्रुतस्तस्य तेन रूपेण तत्तत्स्मरणासंभव इति।

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368