Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 366
________________ ३५८ व्युत्पत्तिवादः [ आख्याते श्येनेऽबाधितमेव वैरिवधे उत्कटरागवतस्तजन्यनरके बलवद्वेषानुत्पत्त्या तादृशनरकस्य वैरिवधोत्कटकामनाविशिष्टवृत्तिद्वेषाविषयत्वात्। न ह्येकदा एकत्रावर्त्तमानयोरेकतरमपरविशिष्टवृत्तीति मिश्राणां मूलाभिप्रायवर्णनं-तदपि न, बलवद्वेषविषयदुःखजनकत्वप्रतियोगिकाभावस्यातिप्रसक्ततया बलवद्वेषविषयदुःखजनकत्वत्वावच्छिन्नाभावस्य वाच्यतास्वीकारे पुरुषविशेषीयबलवद्वेषविषयदुःखजनकत्वाभावस्य प्रत्ययासंभवात् तादृशदुःखजनकत्वे अभावे च खण्डशक्तिस्वीकारे विशिष्टशक्तिस्वीकारपरित्यागात् । एवं यत्रोत्कटरागो यदा तत्रैव नोत्कटद्वेषस्तदा नजन्ये फले उत्कटरागदशायां च तज्जन्यदुःखरूपफलान्तरे उत्कटद्वेष न किंचिद्बाधकमिति वैरिवधे उत्कटरागदशायां च श्येनजन्यनरके बलवद्वेषो दुरपवाद एव । अस्तु वा फलविशेषोत्कटरागघटिता उपायगोचरोकटरागसामग्री। तत्रैव तज्जन्यतया ज्ञाते सति फलान्तरेप्युत्कटद्वेषविरोधिनी तथापि नरकवैरिवधयोरेकतरं प्रति श्येनस्य हेतुत्वाग्रहदशायां तयोर्बलवद्वेषरागयोयुगपत्संभव एव । ___ यत्तु दीक्षाङ्गपशुघातस्य नरकासाधनतया मा हिंस्यादि'त्यत्रावैधहिंसैव विवक्षितेति श्येनस्य नरकासाधनत्वोपपादनं, तदपि न। तावतापि अभिचारविधया तथात्वस्य दुर्वारत्वात् । अथ खण्डशक्तिमवलम्ब्यानिष्टासाधनत्वविनिर्मोकेण क्वचिद्विधिबोधोपगमे 'श्वेतं छागमालभेते'त्यादावपि तत्परित्यागसंभवात् अविरोधेन 'मा हिंस्या'दित्यत्र श्रुत्यर्थसंकोचो न स्यादिति सांख्यमतमेव साधीय इति चेत्-स्यादेव अविरोधेऽपि 'ब्राह्मणेभ्यो दधि दीयतां तर्क कोण्डिन्याये'त्यत्रेव सामान्यविधेर्विशेषेतरपरत्वं व्युत्पत्तिसिद्धमिति 'मा हिंस्या'दित्यत्र संकोचः। अथ वा कथंचिद्वाधकापनयसंभवेनौत्सर्गिकार्थपरित्याग इति हिंसानिषेधसंकोचेनैवोपपत्तौ न

Loading...

Page Navigation
1 ... 364 365 366 367 368