Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
३५७
श्येनवाक्यार्थ ] जयाऽलङ्कृतः तद्विधायकश्रुतेरप्रामाण्यप्रसङ्ग इति शक्तिभेदस्य श्येने केवलेष्टसाधनताबोधस्य चोपगम आवश्यकः । ___ मणिकृतापि विशिष्टस्य वाच्यत्वे श्येने विध्यर्थबाधेन तत्र बलवदनिष्टासाधनत्वस्याभानं लिखितम् । तदभानं विशिष्टशक्तिपक्षे न , संभवति । विशिष्टशक्तविशेषणविनिर्मोकेण विशेष्यांशाभासकत्वात्। तत्तद्धर्मप्रकारेण पदार्थविषयकशाब्दबोधे तत्तद्धर्माशे शक्यतावच्छेदकत्वपर्याप्त्यवगाहिज्ञानस्य हेतुत्वात् । अन्यथा विशिष्टस्वर्गादिवाचकस्वर्गादिपदाद्विना लक्षणां केवलं सुखत्वादिप्रकारकशाब्दबोधापत्तेः। यदि च केवलसुखत्वादिना स्वर्गादिरूपसुखबोधो लक्षणामन्तरेण स्वर्गादिपदादिष्यत एव । नेष्यते परं सुखान्तरबोधस्तत्र शक्तिविरहादिति शक्यतावच्छेदकतापयाप्त्यवगाहित्वमनुपयोगीत्युच्यते तदापि बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वस्य शक्यतायां श्येननिष्ठवैरिवधसाधनत्वस्य बलवदनिष्टसाधन- . त्वनियतत्वेन तदसाधनत्वविशिष्टत्वेन विधिप्रत्ययावाच्यतया सुतरां तत्र विध्यर्थत्वानिर्वाह एव । ____यत्तु श्येनस्यादृष्टाद्वारकत्वघटितहिंसालक्षणानाक्रान्ततया बलवदुःखाजनकत्वमिति मतान्तरम् तदसत्। तथा सति श्येने तात्त्विकप्रवृत्तिवारणाय बलवहुःखाप्रयोजकत्वज्ञानस्यैव प्रवृत्तिहेतुताया उपगन्तव्यतया तस्यैव विध्यर्थताया आवश्यकत्वेन श्येने तबाधाच्छ्रतेरप्रामाण्यप्रसङ्गतादवस्थ्यात्। श्येनस्य हिंसात्वविरहेऽपि अभिचारतया नरकजनकत्वस्य दुर्वारत्वाच्च ।
यत्तु 'अभिचरन्नि'त्यस्य वैरिवधगोचरप्रबलकामनाविशिष्टार्थतया तादृशकामनाविशिष्टस्यैव पुरुषस्य बलवद्वेषविषयाजनकत्वरूपबलवदनिष्टाननुबन्धित्वघटकद्वेषानुदयात् तादृशकामनाविशिष्टवृत्तिवलवद्वेषविषयाजनकत्वं श्रुतिवाक्यात् प्रत्येतव्यं, तच्च

Page Navigation
1 ... 363 364 365 366 367 368