Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 363
________________ . ३५५ इष्टसाधत्वम् ] जयाऽलङ्कृतः अथ वा सन्ध्यावन्दनाकरणेन प्रत्यवायजननेऽधिकारैकदेशशौचादिमत्त्वमेव सहकार न तु फलकामनापि तदसत्त्वेपि प्रत्यवायोत्पत्तेः सर्वसिद्धत्वात् । एतेन संवलितांधिकारानुपगमे शौचादिशून्यफलकामनावतो दैवान्नित्याकरणं प्रत्यवायं जनयेदिति निरस्तम् । अत एव नित्यकाम्यजयन्तीव्रतादौ फलकामनाया अधिकारत्वस्य सर्वसिद्धतया शौचादिमत: फलकामनारहितस्य तदकरणं प्रत्यवायं जनयतीति । ___अपरे 'तु चैत्यं न वन्देते'ति वाक्यप्रामाण्यानुरोधेनेष्टसाधनत्वस्य विध्यर्थत्वमावश्यकम् । कृतिसाध्यत्वादिमति चैत्यवन्दनादौ कृतिसाध्यत्वाद्यभावस्य नया बोधने तद्वाक्यस्याप्रामाण्यापत्तेः । कृतिसाध्यतायाश्च विधित्वं नियुक्तिकम् । तदनङ्गीकारेऽपि कृतेराख्यातसामान्यार्थतया विधिप्रत्ययस्यापि तदर्थकतया पचेतेत्यादौ कृते: पाकानुकूलत्वभानस्यावश्यकतयार्थापाकादावपि कृतिसाध्यताभानात् । कृतिसाध्यताया विधित्वेऽपि तत्तत्कालतत्तत्पुरुषविशेषितकृतिसाध्यताविषयकस्य प्रवर्तकज्ञानस्य शाब्दबोधोत्तरमेव स्वीकरणीयतया विधिवाक्यजशाब्दबोधतः साक्षात्प्रवृत्त्यनिवाहात् । अस्तु वा साध्यतासंबन्धेनैवाख्यातसामान्यार्थकृतेः क्रियायां विधिप्रत्ययजन्यबोधे भानम् । प्रवर्तिका चिकीर्षापि साध्यतासंबन्धेन कृतिप्रकारिका क्रियेच्छैव । न च लडादिस्थले पाख्यातार्थकृतेः क्रियाविशेष्यतयैव भानमिति व्युत्पत्तेः क्लप्तत्वात्पचेतेत्यादौ न तस्याः क्रियाविशेषणतया भानसंभव इति वाच्यम् । व्युत्पत्तिवैचित्र्येण तदुपपत्तेः । शक्त्यभेदेपि व्युत्पत्तिभेदे बाधकाभावात् । अत एव प्राचीनैराख्यातार्थस्यैव कृतेः कर्मप्रत्ययस्थले क्रियाविशेषणतया भानमुपेयते । एवं कचित्पाकादाविव सर्वत्रैव यागपाकादेः लौकिकप्रमाणादेव कृतिसाध्यताबोधो निर्वहतीति वदन्ति ।

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368