Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
नित्यकर्म० ] जयाऽलङ्कृतः
३५३ ग्रामादिफलोद्देशेनापि प्रवृत्त्युपपत्तेः । तद्विधेः स्वर्गपरत्वनिश्चयायोगात् । स्वर्गादिफलकामनारहितैर्मुमुक्षुभिरपि संध्यावन्दनाद्याचरणादुक्तप्रवृत्तिसामग्रीकल्पनस्यावश्यकत्वाच्च। तादृशसामग्री विना प्रायश्चित्तादाविष्टासाधने प्रवृत्त्यनिर्वाहाच्च।
न च तत्रापि पापध्वंसेष्टसाधनताज्ञानात्प्रवृत्तिनिर्वहति। सुखदुःखाभावेतरगोचरेच्छायां इष्टसाधनताज्ञानस्य नियमतोऽपेक्षायां निष्फलपापध्वंसस्येष्टत्वासंभवात् । नरकसाधनगोचरद्वेषस्य तध्वंसगोचरेच्छाजनकत्वोपगमेऽस्मत्समीहितायामिष्टसाधनत्वज्ञानाघटितप्रवृत्तिसामग्र्यामविवादात् । कृतिसाध्यताज्ञानसहितेच्छासामान्यसामग्रीतश्चिकीर्षोत्पत्तनिष्फलेऽपि संध्यावन्दनादौ निर्वाहेण प्रवृत्त्युपपत्तेः । न च नरकानुत्पाद एव प्रायश्चित्तस्य संध्यावन्दनादेश्च फलमितीष्टसाधनताज्ञानघटितैव प्रवृत्तिसामग्री। नरकद्वेषवतां च तदनुत्पादे नियमत एवेच्छेति तेषां नित्यसंध्यावन्दनाद्यनुष्ठानमुपपद्यते । अन्यैश्च तत्रानुष्ठीयते इति वाच्यम्। नरकानुत्पादस्य तत्प्रागभावात्मकस्य प्रतियोगिविकल्पग्रासेन फलत्वासंभवात् । अत्यन्ताभावस्य प्रतियोगिविरोधितया कदाचित्पापान्तरेण यस्य नरकदुःखं जनितं जनिष्यते वा तदात्मन्यसत्त्वाग्नित्यत्वेन चोभयोः फलत्वासंभवात् । योगक्षेमसाधारणसाधनतायाश्च गुरुशरीरत्वेन प्रवृत्यनुपयोगित्वात्। __ यदपि 'मण्डली कुर्या'दित्यादिवाक्यप्रामाण्यवारणायेष्टसाधनत्वस्य विध्यर्थत्वमावश्यकमिति तदपि न । मण्डलीकरणादिजन्यतद्ध्वंसादिरूपफलेऽपि कदाचित्कस्यचिदिष्टसाधनताभ्रमेणेच्छोत्पत्त्या मण्डलीकरणादावपीष्टसाधनत्वाबाधेनेष्टसाधनत्वविध्यर्थतामतेऽपि तद्वाक्यप्रामाण्यस्यावश्यकतया इष्टापत्तेः। 'स्वर्गकामो मण्डली कुर्यादि'ति वाक्यजन्यबोधे च स्वर्गकामनाया मण्डलीकरणादिनिष्ठकर्तव्यत्वप्रयोजकत्वभानेन तदर्थबाधेन तद्वा

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368