Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 360
________________ ३५२ व्युत्पत्तिवादः [ आख्याते ष्फले संध्योपासनादाविष्टसाधनत्वस्यायोग्यत्वेनान्वयासंभवान्नेष्टसाधनत्वं लिङर्थः। अथ संध्यावन्दनादेरप्यर्थवादोपस्थापितब्रह्मलोकावाप्त्यादिफलसाधनत्वमव्याहतम् । यत्र नित्येऽर्थवादादपि न फलोपस्थितिस्तत्रापि फलाभावनिश्चायकप्रमाणाभावाद्योग्यतासंशयसंभवेन फलसाधनत्वप्रत्ययो लिङादितः संभवत्येव । न च तद्बोधो नोपयोगी। निष्फलतया ज्ञाते चैत्यवन्दनादौ प्रवृत्तिवारणायेष्टसाधनताज्ञानस्य प्रवृत्तिहेतुतावश्यकत्वेन नित्यविधेः प्रवृत्तिनिर्वाहाय तस्य फलसाधनताबोधकताया आवश्यकत्वादिति चेत्-न। “संध्यामुपासते ये च सततं संशितव्रता” इति श्रुतौ सततमिति श्रुतेः कदाचिद्यस्य संध्यावन्दनादिबाधस्तेन स्वीयसंध्यावन्दने ब्रह्मलोकावाप्तिफलानुपधानस्य निश्चिततया अहरहः संध्यावन्दने ब्रह्मलोकावाप्तिसाधनताबोधनेऽपि तस्य संध्यावन्दने प्रवृत्त्यनिर्वाहात्। यत्र च नित्ये विशिष्यफलबोधकोऽर्थवादादिर्नास्ति तत्र विधिप्रत्ययेन इष्टत्वेन फलसाधनताबोधस्य जननेऽपि इच्छाविषयताऽवच्छेदकस्वर्गवादिरूपविशेषधर्मप्रकारेण फलविषयकतत्साधनताबोधस्यानिर्वाहेण प्रवृत्त्यनिर्वाहात् । इष्टसाधनताज्ञानाघटितकारणस्तोमात्मिकायाः संध्यावन्दनाद्यभावगोचरनरकादिसाधनताज्ञानाधीनतद्गोचरद्वेषघटितसामग्र्या एव संध्यावन्दनादौ प्रवर्तकताया उपगन्तव्यतया नित्यस्थले इष्टसाधनताबोधस्यानुपयोगिताया दुर्वारत्वात्। न च 'विश्वजिता यजेते'त्यत्र विशिष्टफलाश्रवणेऽपि यथा स्वर्गकामपदस्याध्याहारेण तत्समभिव्याहाराद् विशेषरूपावच्छिन्नस्वर्गसाधनताबोधस्तथा नित्यस्थलेऽपि विशेषधर्मप्रकारकस्वर्गसाधनबोधसंभवात् उक्तप्रवृत्तिसामग्र्यन्तरकल्पनमयुक्तमिति वाच्यम् । बहुवित्तव्ययायाससाध्यविश्वजिद्यागेन तत्तग्रामपश्वादिफलोद्देशेन प्रवृत्त्यनुपपत्तेः । तद्विधेः स्वर्गफलतात्पर्यनिश्चयात्संध्यावन्दनादौ चाल्पायाससाध्ये

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368