Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
३३६ व्युत्पत्तिवादः
[ आख्याते योगिताकत्वसंबन्धेन चैत्रादिनिष्ठक्रियाविशेषितभेदस्य स्वसामानाधिकरण्यस्वप्रतियोगितावच्छेदकजन्यत्वोभयसंबन्धेन फलेऽन्वयः। विशिष्टफलस्य नसमभिव्याहारे विशिष्टफलाभावस्य नसमभिव्याहारे च कर्मण्यन्वयः । चैत्रमैत्रयोरुभयकर्मजसंयोगस्थले चैत्रवृत्तिक्रियावच्छिन्नभेदस्य चैत्रेऽसत्त्वेन विशिष्टफलाभावोऽक्षतः। यत्र मन्देन ग्रामो गम्यते न तु मन्दान्तरं तत्र मन्दनिष्ठग्रामसंयोगे मन्दान्तरनिष्ठक्रियावच्छिन्नभेदसामानाधिकरण्यस्य तन्मन्दान्तर्भावेण सत्त्वेऽपि तादृशभेदप्रतियोगितावच्छेदकमन्दान्तरनिष्ठक्रियाजन्यत्वस्यासत्वानद्घटितोभयसंबन्धेन मन्दनिष्ठक्रियावच्छिन्नभेदविशिष्टस्य फलस्याभावो मन्देऽक्षत एवेति न कश्चिद्दोषः । कर्तृप्रत्ययस्थले चाधेयतया प्रकृत्यान्वितस्य फलस्य भेदरूपापरार्थे सामानाधिकरण्यस्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वोभयसंबन्धेनान्वयः तादृशभेदस्य च स्वप्रतियोगितावच्छेदकत्वसंबन्धेन क्रियायाम् । यत्र चैत्रक्रियया ग्रामे न संयोगोऽपि त्वन्यत्र तत्र ग्रामं गच्छति चैत्र इति प्रयोगवारणाय स्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वस्य चैत्रो ग्रामंगच्छतीत्यादौ चैत्रश्चैत्रं गच्छतीति प्रयोगवारणाय सामानाधिकरण्यस्य संबन्धमध्ये निवेशः । चरमस्थले चैत्रग्रामसंयोगस्य ग्रामनिष्ठचैत्रक्रियावच्छिन्नभेदे संबन्धद्वयसत्त्वेपि चैत्रवृत्तित्वविशिष्टस्य तत्संयोगस्य तादृशभेदे सामानाधिकरण्यविरहाच्चैत्रक्रियायां तद्भेदप्रतियोगितावच्छेदकत्वसत्त्वेपि नातिप्रसङ्गः । चैत्रश्चैत्रं न गच्छतीत्यादौ च तादृशभेदान्वितक्रियाकर्तृत्वाभाव एव चैत्रे प्रतीयते, न तु क्रियायां द्वितीयार्थविशिष्टभेदस्य प्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्नाभावः । तादृशसंवन्धस्य वृत्यनियामकत्वात् । यदि तात्पर्यविशेषवशात् क्रियानुयोगिकोऽप्यभावः कचित्प्रतीयते इत्यनुभवसिद्धं तदा प्रतियोगितावच्छेदकत्वेऽपि द्वितीयाद्यर्थत्वमुपगम्यविशिष्टभेदप्रतियोगितावच्छेदकत्वाभावान्वय

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368