Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 349
________________ ३४१ लुट्प्रत्ययः ] जयाऽलङ्कृतः दौ न तु लडाश्रयत्वादौ ज्ञानाद्यसत्त्वेऽपि तदाश्रयत्वादिसंबन्धे सति जानातीत्यादिप्रयोगापत्तेः । ज्ञानादिविशिष्टे आश्रयत्वादी कालान्वयमुपगम्यातिप्रसंगवारणे विशेषणे ज्ञानादावपि तदन्वयस्यावश्यकत्वे तस्यैव स्वीकारौचित्यात् । नश्यतीत्यादौ क्रियायां कालान्वयस्वीकारे विनष्टादावपि नश्यतीत्यादिप्रयोगः स्यादिति तत्रोत्पत्तेरपि लडाद्यर्थत्वमुपगम्य तत्रैव कालान्वयं दीधितिकृदुपजगाम । वस्तुतस्तु नाशत्वमुत्पत्तिमदभावत्वम्। तथा च धातुप्रतिपाद्यतावच्छेदकोत्पत्तावेव कालान्वय इत्येव साधीयः। वर्तमानकालस्योत्पत्तिसंबन्धेन धात्वर्थेऽन्वय इत्यपि वदन्ति । ___ लुट्प्रत्ययेन पक्ष्यतीत्यादौ प्रत्ययार्थकृतौ ज्ञास्यतीत्यादौ क्रियायां भविष्यत्त्वं प्रत्याय्यते । यद्यपि भुव उत्पत्त्यर्थकतया अनागतकालोत्पत्तिकत्वं भविष्यच्छब्दार्थस्तथापि पक्ष्यतीत्यादौ कृत्यादावनागतत्वमात्रस्य प्रतीतिरुपेयते उत्पत्तिप्रतीतेर्निष्फलत्वाद्भविष्यत्युत्पस्यत इत्यादौ धातुनैव तादृशोत्पत्तिः प्रत्याय्यते, नश्यतीत्यादौ च दर्शिता गतिः। तथा च वर्त्तमानप्रागभावाप्रतियोगित्वं प्रतियोगितासंबन्धेनान्वयो वर्तमानप्रागभावो वा लुट्प्रत्ययार्थः। प्रागभावानङ्गीकारे वर्तमानकालध्वंस एव तदर्थः। ध्वंसस्य कालोपाधित्वेन स्वसमानकालपदार्थाधारतया अनागतकृतेर्वर्तमानकालध्वंसोत्पत्तिमत्तया उत्पत्तिसंबन्धेन कृत्यादावन्वयः । अथ पचमानेऽप्युदीच्यपाकानुकूलकृतिमादाय पक्ष्यतीत्यादिप्रयोगापत्तिः । पाकानुकूलकृतित्वावच्छेदेन चानागतत्वबोधस्वीकारो न संभवति । पूर्वपूर्वपाकानुकूलकृतौ तबाधात्पक्ष्यमाणेऽपि पक्ष्यतीति प्रयोगानुपपत्तेः । तत्तत्पाकानुकूलकृतित्वावच्छेदेनापि तदन्वयासंभवः तत्तत्पाकत्वेन पदादनुपस्थितेः । नापि यत्किंचित्पाकानुकूलाद्यकृतित्वावच्छेदेन तदन्वयः । आद्यत्वोपस्थापकपदाभावात्। तत्तद्वयक्तिमनन्तर्भाव्य दुर्वचत्वाच्चेति

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368