Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
३४२
व्युत्पत्तिवादः
[ प्राख्याते चेत्-न ।प्रागभावस्य वर्त्तमानत्वं शब्दप्रयोगाधिकरणक्षणवृत्तित्वम् , वर्तमानप्रागभावस्य प्रत्ययार्थत्वे तस्य स्वविशिष्टकालवृत्तिकृतिजन्यपाकाननुकूलत्वविशिष्टप्रतियोगितासंबन्धेन वर्तमानकालध्वंसस्य तदर्थत्वे च स्वपूर्वकालीनकृतिजन्यपाकाननुकूलत्वविशिष्टाधेयत्वसंबन्धेन कृत्यंशेऽन्वयोपगमे उदीच्यकृतौ वर्तमानप्रागभावादेर्दशितविशिष्टसंबन्धासत्त्वेनातिप्रसङ्गविरहात् । ध्वंसपूर्वत्वं च तदनधिकरणत्वमेव। न चान्तरालिककृतिजन्यस्य पच्यर्थव्यापारस्य पूर्वव्यापारानुकूलकृत्यजन्यतया आन्तरालिककृते: पूर्वकृतिजन्यपाकाननुकूलत्वमक्षतमेवेति तस्या अपि निरुक्तविशिष्टसंबन्धेन वर्तमानप्रागभावादिमत्त्वमक्षतमेवेति वाच्यम् । कृतिजन्यपाकेत्यत्र कृतिजन्यव्यापाराधीनफलानुकूलव्यापारस्य विवक्षितत्वात् ।
पक्तत्यादौ लुटोऽनद्यतनभविष्यत्त्वमर्थः । अनद्यतनभविष्यत्त्वं च शब्दप्रयोगाधिकरणदिवसावृत्तित्वे सति शब्दप्रयोगकालीनप्रागभावप्रतियोगित्वम् । शब्दप्रयोगाधिकरणदिवसध्वंसोत्पत्तिकत्वं वा। ___केचित्तु भविष्यत्त्वमेव तस्यार्थः । क्रियायाः कृतेर्वा स्वरूपसदनद्यतनत्वमेव तत्साधुतानियामकम् । असाधुत्वादेवाद्य पक्ष्यतीत्यादौ पक्तेति न प्रयोग इत्याहुः-तन्न। तथा सति भविष्यत्त्वादिकमपि नाख्यातार्थ: स्यात् । स्वरूपसद्भविष्यत्त्वादिकमेव लुडादिप्रत्ययस्य साधुतानियामकम् । असाधुत्वादेव पक्ष्यति पक्तेतिवत्पचतीत्यादौ पक्ष्यतीत्यादिप्रयोगविरह इत्यस्यापि वक्तुं शक्यत्वात् । पचति पक्ष्यतीत्यादेरविलक्षणबोधजनकत्वमनुभवविरुद्धमिति कालविशेषवोध
आवश्यक इति चेत् तदा पक्ता पक्ष्यतीत्यादेरपि विलक्षणबोधजनकत्वस्यानुभविकतया अनद्यतनवान्वयबोधोऽपि दुर्वारः। यदि च पक्ष्यतीत्यादिवाक्यजन्यबोधे सति भविष्यत्त्वादिसंशयानुदयाद्भविष्यत्त्वादेः शाब्दधीविषयत्वमावश्यकमित्युच्यतं तदानद्यतनत्वबोधेऽपि ईदृशीमेव युक्तिं गृहाण । एवं न पक्ष्यतीत्यादावभावे अनागत

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368