Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
कर्माख्यातार्थः ]
जयाऽलङ्कृतः ये तु फलं भेदश्च कर्मप्रत्ययार्थः, फले जन्यतासंबन्धेन भेदे च स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन क्रियाया अन्वयः भेदफलयोश्च कर्मण्याश्रयतासंबन्धेनान्वयः, चैत्रसमवेतक्रियावच्छिन्नभेदस्य चैत्रो नाश्रय इति तादृशक्रियाजन्यफलाश्रयत्वेऽपि तस्य चैत्रेण चैत्रोगम्यत इति न प्रयोगः, मन्दो मन्देन गम्यते इत्यादेरेकमन्दादिनिष्ठक्रियावच्छिन्नभेदसहितस्य तज्जन्यफलस्य मन्दान्तरे सत्त्वाम्नानुपत्तिरिति ब्रुवते तन्मतेऽपि चैत्रेण चैत्रो न गम्यते इत्यादेरनुपपत्तिर्दु
रैव । चैत्रे चैत्रसमवेतक्रियावच्छिन्नभेदाभावसत्त्वेऽपि तादृशक्रियाजन्यफलाभावम्य बाधात् । न च फलाभावो नया न तत्र प्रत्याय्योऽपि तु भेदाभाव एव कर्मणीति वाच्यम् । यदा चैत्रेण ग्रामो न गम्यते तदापि तादृशप्रयोगानुपपत्तेः। तादृशभेदाभावस्य ग्रामे बाधात् । न च भेदस्य सामानाधिकरण्यसंबन्धेन फलेऽन्वयः। तादृशसम्बन्धेन क्रियावच्छिन्नभेदविशिष्टस्य क्रियाजन्यफलस्यैव चाभावो नया कर्मणि प्रत्यास्यत इति न दोषः। विशिष्टाभावस्योभयत्र सत्त्वादिति वाच्यम् । एवमपि मन्देन यत्रापरमन्दो न गम्यतेऽपि तु ग्रामादिरेव तत्र प्रामादिगन्तरि मन्द मन्दान्तरनिष्ठक्रियावच्छिन्नभेदसहितस्य स्वात्मकमन्दनिष्ठक्रियाजन्यग्रामादिसंयोगस्य सत्त्वेन विशिष्टाभावबाधान्मन्देन मन्दो न गम्यते इत्यादेरनुपपत्तिः । यदि फलमेव कर्माख्यातार्थस्तस्याश्रयत्वस्वानुकूलक्रियावच्छिन्नभेदवत्त्वोभयसंबन्धेन कर्मण्यन्वयः। नसमभिव्याहारे च तदुभयसंबन्धावच्छिन्नक्रियाजन्यफलाभाव एव तत्रान्वयीत्युच्यते, तदापि यत्र चैत्रमैत्रयोरुभयकर्मजसंयोगस्तत्र चैत्रनिष्ठतादृशसंयोगस्य चैत्रे आश्रयत्वस्वानुकलक्रियावच्छिन्नभेदवत्त्वोभयसंबन्धेन सत्त्वाच्चैत्रेण चैत्रो न गम्यते इत्यस्यानुपपत्तेः । चैत्रेण चैत्रो गम्यते इत्यापत्तेश्च ।
अत्रोच्यते। भेदः फलं च कर्माख्यातार्थः। स्वावच्छिन्नप्रति

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368