Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 341
________________ आत्मनेपद० ] जयाऽलङ्कृतः ३३३ अत्रेदं चिन्त्यते। लकारतिवाद्योरनतिप्रसक्तस्थान्यादेशभावस्य दुर्वचत्वात् । तिबादिस्मारितलकारस्य वाचकत्वं न विचारसहम्। तिबादेरेव यत्र वाचकताग्रहस्तदनुरोधेन पचतीत्याद्यानुपूर्वीज्ञानस्य तिबादिजन्योपस्थितिसहकारेण शाब्दबोधोपधायकताकल्पनस्यावश्यकतया लकारजन्योपस्थितिसहकृततादृशानुपूर्वीज्ञानतिबादिधर्मिकलादेशत्वज्ञानघटितसामग्र यन्तरकल्पने गौरवेण लाघवात्तिबादेरेव तादूप्येण शक्तिकल्पनाया उचितत्वं चेत्याख्यातसामान्यस्य कर्तृत्व इव तद्विशेषस्यात्मनेपदस्य कर्मत्वे शक्तिर्न तु यथाश्रुताग्राहिवैयाकरणमत इव कर्मरूपधर्मिवाचकत्वं गौरवात् । प्रथमान्तपदार्थे कर्मत्वान्वयवलादेव कर्मता विशिष्टधर्मिलाभसंभवात् । न चात्मनेपदस्य शानच्प्रत्ययस्य धर्मिणि शक्तेः पच्यमानमानयेत्यादौ पच्यमानादिनिष्ठानयनकर्मत्वाद्यनुरोधेनावश्यकत्वात्तत एवोपपत्तौ आख्यातरूपात्मनेपदस्य धर्मवाचकत्वं नियुक्तिकमिति वाच्यम् । तशानच्साधारणस्यात्मनेपदत्वस्य शक्ततावच्छेदकत्व एव तथोक्तिसंभवात् । तादृशात्मनेपदत्वस्य चागुरोनिर्वचनासंभवात् । पाणिन्यादिसंकेतसंबन्धेनात्मनेपदवत्त्वस्य शक्ततावच्छेदकताया उक्तरीत्याऽनवकाशात् । अतस्तादीनां तत्तद्रूपण शक्तिकल्पनस्यावश्यकतया लाघवात्कर्मत्व एव तत्कल्पनात् । कर्मत्वं च त्यज्यते ग्रामो, गम्यते ग्राम, इत्यादौ धात्वर्थतावच्छेदकीभूतसंयोगविभागादिरेव विशेष्यतया तिङ्वाच्यः । चैत्रेण गम्यते ग्रामः इत्यत्र तृतीयार्थस्तत्कर्तकत्वरूपमाधेयत्वं तस्य धात्वर्थे संयोगात्मकफलावच्छिन्ने स्पन्दलक्षणे व्यापारे तस्य च जन्यतासंबन्धेनात्मनेपदार्थसंयोगरूपफले तस्य चाश्रयतासंबन्धेन प्रथमान्तपदोपस्थाप्यग्रामेऽन्वय इति चैत्रवृत्तिर्यः संयोगावच्छिन्नस्पन्दस्तजन्यसंयोगवान् ग्राम इत्याकारकः शाब्दबोधः। चैत्रेण त्यज्यते ग्राम इत्यत्र संयोगस्थाने विभागमन्तर्भाव्य बोध उपपाद

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368