Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 339
________________ ३३१ कर्तृ वशक्ततावच्छटेक० ] जयाऽलङ्कृतः भावस्याप्यवगाहनसंभवाद्घटे ज्ञानं न वेत्यादिसंशयनिरासाय कदाचिज्ज्ञाने न घट इत्यादिकमपि प्रयुज्येत । अत एवानुकूलकृतिमत्त्वादिरूपकर्तत्वादेरपि चैत्रः पचतीत्यादौ प्रकारता मणिकृतापि स्वीक्रियते न तु संसर्गता । न पचतीत्यादावन्वयबोधानिर्वाहात् । ताशसंबन्धस्य वृत्त्यनियामकतया अभावप्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नक्रियाविरहप्रत्ययस्य तत्रोपगमासंभवात् । एवं चैत्रेण ज्ञायत इत्यादावाधेयत्वस्य तृतीयया अविवक्षणे प्रातिपदिकार्थमात्रविवक्षया तद्विषयानुशिष्टप्रथमैव स्यात् । जानाति चैत्र इत्यादौ चाख्यान कर्तत्वाविवक्षणे धात्वर्थरूपभावमात्रपरतया परस्मैपदस्य नादिविकरणस्य वा साधुतापत्तिः। भावकमणोरित्यात्मनेपदविधायकानुशासनविषयत्वात् कर्तरीत्यधिकारीयत्र्यादिभ्यः भा इत्यनुशासनाविषयत्वाञ्चेति। तत्राख्यातस्य कतत्वाबोधकतायुक्तिस्तु न साधीयसी इतराविशेषणतया क्रियाबोधपरत्वरूपभावविवक्षायामात्मनेपदानुशासनविषयतोपगमादुक्तस्थले परस्मैपदसाधुतायास्तादृशभावविवक्षादिविरहस्य भाद्यनुशासनविषयत्वोपगमेन भादिविकरणस्य साधुतायाश्च निर्वाहसंभवात् । पचन् पचतीत्यादाविवोद्देश्यतावच्छेदकविधेयाभेदेन जानन् जानातीत्यादेनिराकाङ्क्षतानिहायापि जानातीत्यादावाख्यातस्याश्रयतार्थकतोपगम आवश्यकः । अन्यथा कृदन्तप्रतिपाद्यतावच्छेदकस्य ज्ञानादिरूपविधेयभिन्नतया निराकाङ्क्षताविरहेण तथा प्रयोगापत्तेः। एतेन तत्राश्रयतायाः प्रकारतोपगमे जानाति चैत्र इत्यादिवाक्यज्ञानघटितशाव्दसामग्रया भिन्नविषयप्रत्यक्षादिप्रतिबन्धकतायामाख्यातजन्याश्रयत्वोपस्थित्यादिरूपाधिककारणानां निवेशे गौरवेणाश्रयतायाः संसर्गत्वमेवोचितमित्यादिकमनुपादेयम्। नश्यतीत्यादौ प्रतियोगित्वरूपकर्तत्वमाख्यातार्थस्तादृशसंबन्धस्याभावप्रतियोगितानव च्छेदकत्वेन नश्यतीत्यादौ नाशप्रतियोगित्वाभा

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368