Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 337
________________ आख्यातार्थ० ] जयाऽलङ्कृतः ३२६ भानं स्यात्। धातुप्रत्यययोर्द्वयोः कृतिबोधकत्वादिति चेन्न । एको द्वावित्यादौ एकत्वद्वित्वादिबोधकप्रकृतिप्रत्ययोभयसत्त्वेऽप्येकधैवैकत्वादिधीवत्प्रकृतेऽपि बाधकाभावात् । तत्र विभक्तेः साधुत्वार्थकत्वेऽत्रापि तथात्वात् । अथ तर्हि करोति चैत्र इत्यादौ प्रातिपदिकार्थे साक्षादेव कृत्यन्वयः स्यात् । स च नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयस्याव्युपन्नत्वात् तथा न संभवतीति नामार्थधात्वर्थयोः साक्षादन्वयोपगमे कर्मतादिबोधकविभक्तरसत्त्वेऽपि तण्डुलः पचतीत्यादौ कर्मतादिसंबन्धेन तण्डुलादेः पाकादावन्वयसंभवेन तादृशवाक्यात्तण्डुलकर्मकपाकादिबोधापत्तेः । न च प्रातिपदिकार्थप्रकारकक्रियान्वयबोध एवाव्युत्पन्नो न तु क्रियाप्रकारकप्रातिपदिकार्थविशेष्यकबोधोऽपीति वाच्यम् । घट: करोतीत्यादितः कर्मतासंबन्धेन कृत्यादेः घटादावन्वयाभावात् क्रियाप्रकारकनामार्थविषयकबोधस्याव्युत्पन्नत्वादिति चेन्न । उक्तातिप्रसङ्गवारणाय धातोः कर्मतादिसंबन्धेन क्रियान्वयाबोधकत्वव्युत्पत्तेरुपगमान्न त्वाश्रयतासंबन्धेन कृत्यादिरूपक्रियान्वयाबोधकत्वव्युत्पत्तेरित्यदोषात् । न च तादृशातिप्रसङ्गवारणाय धातुजन्यकृत्यादिप्रकारकान्वयबोधे प्रत्ययजन्यविशेष्योपस्थितेर्हेतुता वाच्या। तादृशकारणाभावात् प्रातिपदिकार्थविशेष्यकबोधोपि न संभवतीति वाच्यम्। कर्मत्वादिसंबन्धेन कृत्यादिप्रकारकबोधस्याप्रसिद्वया सामग्रयकल्पनेनापादकाभावात् तादृशकारणताया अकल्पनात् । न च क्रियते चैत्र इत्यादौ कृतिप्रकारकबोधवारणायैव उक्तकारणताकल्पनमावश्यकमिति वाच्यम् । सति तात्पर्ये इष्टत्वात् । कर्तविशेष्यकान्वयबोधपरधातूत्तरयकोऽ साधुत्वाच्च प्रामाणिकानां न तथा प्रयोगः। करणं चैत्र इत्यादौ चैत्रादौ धात्वर्थकृतेराश्रयतासंबन्धेनान्वयबोधवारणाय तादृशकार्यकारणभावकल्पनमित्यपि न । तादृशबोधे आख्यातान्तधातुना समभिव्याहारज्ञानहेतुतयैवोक्तस्थले तादृशवोधवारणसंभवात्।

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368