Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 336
________________ ३२८ व्युत्पत्तिवादः [ पाख्याते रस्य यत्नत्वविशिष्टार्थकताया आवश्यकत्वात् । लाघवात्तत्रैव शक्ति ापारे लक्षणेति। न च यत्नत्वस्याख्यातावाच्यनिवृत्तिजीवनयोनियत्नसाधारणतया लकारशक्यतावच्छेदकत्वासंभव इति वाच्यम् । निवृत्त्यादियत्नस्याख्यातवाच्यतोपगमे क्षतिविरहात् । निवृत्त्यादेः पाकानुकूलताविरहेण तत्काले पचतीतिप्रयोगापत्तिविरहात्, इष्टसाधनताज्ञानजन्यतावच्छेदकप्रवृत्तित्वजातेरेवाख्यातप्रवृत्तिनिमित्तत्वोपगमाद्वा । अत एवेश्वरकृतेर्जन्यमात्रजनकत्वेऽपीश्वरः पचति ईश्वरो भुङ्क्त इत्यादयो न प्रयोगाः । न चैवमीश्वरो वेदं वक्ति मथुरायां कृष्णो विहरतीत्यादिप्रयोगानुपपत्तिः। अत्राख्यातस्य लक्ष्यार्थव्यापारबोधकतोपगमात् । ईश्वरकृतिसाधारणधर्मस्याख्यातप्रवृत्तिनिमित्तत्वेऽपि तत्र व्यापारलक्षणाया आवश्यकत्वात् । तथा हि । आत्मा पचति शरीरं पचतीत्यादिस्वारसिकप्रयोगविरहादाख्यातार्थकृतेरुद्देश्यतावच्छेदकशरीरविशेषावच्छेदेन समवायेनान्वयनियमः स्वीकरणीयः । चैत्रादिपदस्य शरीरविशेषविशिष्टात्मपरतया चैत्रः पचतीत्यादौ शरीरविशेषात्मकोद्देश्यतावच्छेदेकावच्छेदेनात्मनि समवायेनान्वयसंभवात् । गौरः पचतीत्यादावपि गौरादिपदस्य गौरशरीराद्यवच्छिन्नात्मनि आख्यातस्यैव वा व्यापारे लक्षणोपगमात् । एवं चेश्वरकृतेः शरीरानवच्छिन्नत्वादुक्तस्थले कृतस्तथान्वयासंभव इति व्यापारलक्षणा आवश्यकी । ईश्वरकृतिसाधारणयत्नत्वावच्छिन्न एवाख्यातार्थः । असाधारणानुकूलत्वं यत्ने क्रियायाः संबन्धतया भासते न त्वनुकूलतामात्रम् । असाधारणानुकूलताया एवाकाङ्क्षानिरूपकत्वोपगमादतोऽस्मदादिकतकपाकादिक्रियानुकूलकृतिमादाय नेश्वरः पचतीतिप्रयोगः । वेदवचनादौ च ईश्वरकृतेरेवासाधारणकारणत्वात् ईश्वरो वेदं वक्तीत्यादयः प्रयोगा इत्यपि केचित्। अथ कृतेराख्यातस्य कृत्रश्च वाच्यत्वे करोतीत्यादौ कृतेर्द्विधा

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368