Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
३२४
व्युत्पत्तिवादः
। पाख्याते पपत्तेः । कर्तरि शबित्याद्यपवादविषयतया यकोऽप्यनिर्वाहादिति सार्थकत्वात् । न च कर्मत्वकर्तृत्वयोरुभयोस्तत्र बोधस्वीकारे तदेकतरस्याख्यातार्थतयोद्देश्यतावच्छेदकतया भानासंभवात्समूहालम्बनबोध एव स्वीकरणीय इति वाक्यभेदापत्तिरिति वाच्यम् । एकत्र द्वयमिति रीत्या तदुभयबोधस्य समूहालम्बनविलक्षणस्य स्वीकारात्। यदि च विधेयद्वयत्वज्ञानं समूहालम्बनात्मकमेव । अत एव विधेयभेदे वाक्यभेद इतिमीमांसकसिद्धान्तोऽपीत्युच्यते, तदास्तुधातोरेव स्वकर्मकक्रियायां लक्षणा। कर्तृत्वसंबन्धमध्य एव वा स्वनिरूपकक्रियाकर्मत्वस्याप्यन्तर्भाव इत्यलम्। ___ एवमकर्मकत्वेऽपि प्रसूते गौःप्रासोष्ट गौः, नमते दण्डमूलमनस्त दण्ड इत्यादौ ण्यर्थान्तर्भावेणैव कर्मकर्तृतानिर्वाहे "न दुहस्नुनमां यचिणा” विति यचिनिषेधोपपत्तिः। एवं चैत्रेण पक्ष्यत इत्यादौ कर्तृत्ववाचकताया दुरपह्नवत्वात् तृतीया नुपपत्तिः। चैत्रः पक्ष्यत इत्यादी लकारेण कर्तृत्वबोधनात्स्याल्लकारसाधारणरूपस्य तद्वाचकतावच्छेदकताध्रौव्याच्च । नापि तदवोधकत्वं तदनभिधानं चैत्रेण पच्यत इति वाक्यजबोधे कर्तृत्वविषयके तादृशवाक्यघटकसकलपदानामेव जनकतया तघटकलकारस्यापि कर्तृत्वबोधकताया वाङ्मात्रेणाप्रत्याख्येयत्वात् । कर्तत्वविषयत्वाप्रयोजकत्वं लादीनां तदनभिधायकत्वं चैत्रेण पच्यत इत्यादौ धात्वर्थविशेषणतया कर्तृत्वविषयता तृतीयाप्रयोज्यैव न त्वाख्यातप्रयोज्या ।
आख्यातस्याश्रयतासंबन्धावच्छिन्नकर्तृत्वप्रकारताया एव कार्यतावच्छेदकत्वादित्यपि न सम्यक् । पचतीत्यवान्तरवाक्यार्थबोधासंग्राहकतया प्रकारताया एवाख्यातजन्यतावच्छेदकत्वासंभवात् । प्रथमान्तसमभिव्याहारज्ञानस्य योग्यताज्ञानादेर्वा जन्यतायामुक्तप्रकारताया अवच्छेदकत्वात्। यदि च 'प्रथमान्तपदसमभिव्याहृताख्यातपदजन्यतावच्छेदकतयैव धर्मिविषयतानिरूपितकर्तृत्वविषय

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368