Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 331
________________ कर्तृत्वानभिधान० ] जयाऽलङ्कृतः ३२३ पि चैत्रः पचतीत्यादौ न तृतीयापत्तिः । अन्वयबलेन विशिष्टबोधात् । चैत्रः पक्तेत्यादौ कृत्प्रत्ययस्य धर्मिणि शक्तावपि न क्षतिः । शक्त्यधीनविशिष्टबोधसाधारण बोधस्यैवानभिधानपदार्थप्रतियोगित्वात् । अथानभिहिते कुत्र्त्तरि तृतीयेत्यनुशासनेऽपि सप्तम्यर्थो बोधकत्वमेव । तथा च चैत्रेण पच्यत इत्यादौ तृतीयार्थकर्तृत्वस्य प्रकृत्यर्थविशेष्यतयैव भानान्न कर्तृत्वविशिष्ट धर्मिबोधकत्वमिति सूत्रविरोधः । यदि च तत्र कर्त्रादिपदं धर्मपरम् । तथा च समभिव्याहृतलकाराद्यनभिहितं कर्तृत्वं तृतीयार्थ इति सूत्रार्थ : चैत्रेण पच्यत इत्यादौ कर्तुत्वस्य तृतीयामात्रार्थत्वाल्लकारेण तदनभिधानं सुघटमित्युच्यते तदा तत्रानभिधानशब्दार्थो भवतैव वक्तव्यः । न तावदवाचकत्वं तदर्थः । लकारसामान्यस्यैव कर्तृत्वशक्तत्वेनानुक्तिसंभवात् । कर्त्तरि यकोऽसाधुत्वादेव चैत्रः पच्यते इत्यादिप्रयोगवारणात्। यगाधनुत्तरत्वस्य कर्तृत्वशक्ततावच्छेदककोटावनिवेशात् । तत्र तन्निवेशे पच्यन्ते माषाः, भिद्यते कुसूलः, लूयते केदार इत्यादौ कर्मकर्त्तुः मापकुसूलकेदारादेः कर्तृत्वबोधानुपपत्तिः । न च तत्र स्वयमेवेत्यस्या - ध्याहारेणाव्ययस्वयंपदोत्तर तृतीयया कर्तृत्वं बोध्यते न तु लकारेणेति वाच्यम् । स्वयमित्याद्यध्याहारं विनापि तत्र कर्तृत्वबोधाभ्युपगमात् । तत्र लकारेण कर्तृत्वाबोधने कर्मकर्त्तुः 'कर्मवत्कर्मरणा तुल्यक्रिय' इत्यतिदेशवैयर्थ्यापातात् । लकारस्य कर्मत्वबोधकतयैव यगात्मनेपदचिचिण्वद्भावरूपातिदेशफलनिर्वाहात् । न च कर्मकर्त्तरि लकाराधीन कर्मत्वबोधस्याप्यावश्यकता । वस्तुगत्या कर्मकर्त्तुः कर्मत्वातिदेशे चैत्रः स्वं पश्यति स्वं हन्तीत्यादावपि यगात्मनेपदादिप्रसङ्गात् । लकारेण कर्मत्वविवक्षायामेव कर्मत्वातिदेशस्य स्वीकरणीयत्वात्। तथा च त्वन्मतेऽपि कर्मत्वातिदेशासंगतिरिति वाच्यम् । कर्मत्वविवक्षायामपि कर्तृत्वविवक्षरणे कर्तृकर्मादिसंज्ञासमावेशविरोधेन परत्वात्कर्तृसंज्ञया कर्मसंज्ञाया बाधेनात्मनेपदचिण्वद्भावाद्यनु

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368