Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 329
________________ तद्धित चतुर्योर्बला ल० ] जयाऽलङ्कृतः ३२१ स्याधिकस्य निवेशनीयतया चतुर्थ्या तदंशाबोधनेन तस्योपायान्तरबोध्यतया चतुर्थ्यधीनदेवतात्वबोधस्य विलम्बिततया तद्धितापेक्षया चतुर्थ्या जघन्यतोपपत्तेः। देवतार्थविहिततद्धितेनैव देवतात्वघटकतदंशस्यापि बोधनात्। अथ चतुर्थ्या वेदमेयत्वांशस्य साक्षादबोधनेऽपि त्यागोद्देश्यत्वस्य साक्षाद्वोधनेन पित्रादीनां साहित्यावच्छिन्नानां पितृभ्यो दद्यादिति चतुर्थ्यधीनत्यागोद्देश्यताबोधस्य पितरो देवता इति तद्धितसमानार्थकदेवतापदाधीननिरपेक्षत्यागोद्देश्यत्वबोधापेक्षयाऽविलम्बितत्वेन साहित्यावच्छिनानां निरपेक्षाणां वा श्राद्धोद्देश्यत्वमित्यत्र चतुर्थ्यपेक्षया देवतापदस्य बलवत्त रूपं शूलपाणिपर्यालोचितं विनिगमकं न संगच्छत इति चेन्न । पितृभ्यो दद्यादिति चतुर्थ्या साहित्यावच्छिन्नस्य त्यागोद्देश्यताबोधे तत्र वेदसमानार्थकस्मृतिवाक्यजन्यत्वग्रहे सत्येवाप्रामाण्यशङ्कान दयः। तादृशग्रहश्च विलम्बितः। देवतापदात्त्यागोद्देश्यताबोधश्च तदद्देश्यतांशे वेदबोधितत्वावगाही स्वस्मिन्नप्रामाण्यशङ्काव्युदासार' न ज्ञानान्तरमपेक्षते । स्वस्यैव स्वात्मकोद्देश्यताबोधांशे व्यावत्तक वेदजन्यत्वावगाहनात्। अप्रामाण्यशङ्काकलंकितश्च बोधो जातोऽप्यकिंचित्कर इति देवतापदस्य झटिति निश्चीयमानप्रामाण्यकबोधजनकतया बलवत्त्वेन विनिगमनाया उपपत्तः । एवं श्राद्धार्थावाहन्प्रकाशकात् पितर इत्यादिमन्त्रबहुवचनोपस्थापितसाहित्यावच्छिन्नावाहनबोधेन साहित्यावच्छिन्नानां श्राद्धदेवतात्वलाभेऽपि मा नङ्गस्य विपक्षबाधकतर्कादिसापेक्षव्याप्तिनिश्चयाधीनतया सुतरां पितरो देवता इत्यतो दुर्बलतेति बोध्यम् । कापोतं राजतं जनते यादौ समूहार्थविहितस्य पर्याप्तसमुदायत्वावच्छिनोऽर्थः पर्याप्तौ प्रत्यर्थकपोतत्वाद्यनवच्छिन्नस्यान्वयः । कपोतशुकसारिकादिपर्याप्त समुदायत्वस्य पर्याप्तिश्च न न्यूनवृत्तिकपोतत्वादिनाऽवच्छिद्यते। अतो न तादृशसमुदाये कापोतादिव्यवहारः । १

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368