Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
३२० व्युत्पत्तिवादः
[ तद्धिते दिपूर्णिमायोग्यतेत्यर्थविवक्षया धनुरादिराशिस्थरव्यारब्धशुक्ल प्रतिपदादिदर्शान्ते तद्धितान्तसमुदायरूढिग्राहकतयोपपत्तौ योगरूढिस्वीकारोऽनुचित इति वाच्यम् । केवलरूढिपक्षे समुदायशक्यतावच्छेदकशरीरे आरब्धान्तविशेषणप्रक्षेपण गौरवात् । पौषतैषमाघादिनानापदानां गुरुधर्मावच्छिन्ने शक्तिकल्पनमपेक्ष्य सास्मिन्नित्यर्थेऽणः प्रत्ययस्यैकशक्तिकल्पनाधिक्यस्योचितत्वात्। न च योगरूढिपक्षे पौषादिपदानां योगार्थरुढ्यर्थाभेदान्वयबोधजनकत्वकल्पनाधिक्येन गौरवमिति वाच्यम्। भवन्मतेऽपि तत्तदर्थे यौगिकरूढत्वभ्रमदशायां सति च तत्तदर्थाभेदान्वयपरत्वग्रहे तथान्वयबोधस्य दुरपह्नवतया तत्र तादृशबोधहेतुताकल्पनस्यावश्यकत्वादिति दिक्।
वैष्णवी ऋक् ऐन्द्रं हविरित्यादौ देवतार्थविहिततद्धितस्य तद्देवताकत्वमर्थः। मन्त्रस्य तद्देवताकत्वं तदुद्देश्यकत्यागकरणत्वेन वेदबोधितत्वम् । अथ मन्त्रस्य त्यागकरणत्वं बाधितमेव। विनापि मन्त्रमिच्छाविशेषरूपस्य तस्योत्पत्त्या व्यभिचारात्। इष्टसाधनताज्ञानघटितक्लप्तसामग्र्या अन्यथासिद्धत्वाञ्चेति मन्त्रस्य करणतां कथं वेदो बोधयेद् बोधयन्वा प्रमाणं भवेत्। सत्यम्। मन्त्रस्य त्यागकरणत्वं त्यागाङ्गोच्चारणकत्वं न तु तज्जनकत्वमतो न दोषः । हविषस्तदेवताकत्वं च तदुद्देश्यकत्यागकर्मत्वम्। तत्त्यागोद्देश्यताया एव तद्देवतापदार्थत्वात् । न चैवं घृतादिसंप्रदानब्राह्मणस्य घृतादिदेवतात्वापत्तिः । उद्देश्यपदेन वेदबोधितद्रव्यस्वामित्वप्रकारेण विषयताया एव विवक्षितत्वात् । संप्रदाने च स्वामित्वस्याबाधितत्वात् । न च त्यागोद्देश्यतायाश्चतुर्थ्यापि बोधनात्तद्धितचतुर्योर्देवतात्वबोधकतायामविशेषात्।
"तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गन वा पुनः। देवतासङ्गतिस्तत्र दुर्बलं तु परं परम्" इत्यनेन विरोध इति वाच्यम्। त्यागोद्देश्यतायां वेदमेयत्व

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368