Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
३१८ व्युत्पत्तिवादः
[ तद्धिते त्यस्यैकदेशे जन्यत्वे गाय॑स्य जीवति तु वंश्ये युवेतिपरिभाषितयुवार्थघटकजीवने च गर्गादेरन्वयस्तेन गर्गादिजीवनकालीनो गर्गगोत्रापत्यस्यापत्यमयमिति बोधः । माञ्जिष्ठं वास इत्यत्र तेन रक्तमित्यथे तद्धितो विहितः। तत्संवन्धाधीनतदीयरूपारोपविषयत्वं तेन रक्तत्वम् । शङ्खः पीत इत्यारोपमादाय शङ्खादेरारोप्य पीतिमाद्याश्रयहरितालादिरक्तत्वस्य वारणायाधीनान्तमारोपे विशेषणम् । पटादेश्चक्षुरादिना रक्तत्वस्य वारणाय तदीयत्वं रूपविशेषणम् । अत्र च रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धितार्थैकदेशसंवन्धे प्रतियोगितया रूपे चाश्रयतयाऽन्वयः। शूल्यमुख्यमित्यादौ तद्धितार्थसंस्कृतैकदेशे पाकादिरूपसंस्कारे शूलोखादेः प्रकृत्यर्थस्याधिकरणत्वेनान्वयः । पौषी रात्रिरित्यादौ नक्षत्रयुक्तकालार्थे तद्धितः । कालस्य नक्षत्रयुक्तत्वं च तनक्षत्रशशिभोगाश्रयत्वं, तदेकदेशे शशिभोगे च कर्मतया तन्नक्षत्रान्वयः। पौषो मासः पौषो वर्ष इत्यादौ सास्मिन्नित्यनेन विहितस्य तद्धितस्य पौर्णमासीघटितत्वावच्छिन्नोऽर्थः पौर्णमास्यां प्रकृत्यर्थपौष्यादेरभेदेनान्वयः। पौषादिपदं च न केवलं यौगिकम् । पौषः पक्ष इत्यादिव्यवहारविरहात अतो रूढमपि । अत एव सूत्रे संज्ञाग्रहणं रूढिनिरूपकतावच्छेदकं च मासनिष्ठशुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वं न तु त्रिंशत्तिथिरूपमासत्वमात्रम् । यत्किंचित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासव्यवहारेऽपि चान्द्रसौरपौषादिबहिर्भूतपौष्यादिघटितत्रिंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहारविरहात् । अथैवमपि सौरे पौषादिव्यवहारस्य निर्विवादतया धनुःस्थरविविशिष्टत्वमेव न कथं पौषादिपदशक्यतावच्छेदकमुपेयत इति चेन्न । सौरे पौषादौ पौष्यादिपूर्णिमाया अलाभे योगरूढिलभ्यपौषपदार्थविलोपापत्तेः । न च तत्र रूढिमात्रमवलम्ब्येव पौषादिव्यवहारः सौरपौषादौ मुख्य इति वाच्यम् । तथा सति योगार्थव्युत्पादनवैयर्थ्यात् । अथ विलुप्यतां वर्षविशेषे पौषादिपद

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368