Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 330
________________ [ आख्याते ३२२ व्युत्पत्तिवादः पर्याप्त्यवच्छेदकत्वे चान्यूनवृत्तित्वमेव च तन्त्रं न त्वनतिरिक्तवृत्तित्वमपि । अन्यथा आकाशत्वादेरिव घटत्वादेरपि द्वित्वादिपर्याप्त्यवच्छेदकता न स्यात् । आकाशावितिवत् घटावित्यपि न स्यात्। इत्थं च कपोतमात्रवृत्तिशतत्वादिपर्याप्तावपि अतिरिक्तवृत्तिकपोतत्वादेरवच्छेदकतानिर्वाहात् । कपोतशतादावपि कापोतादिव्यवहारोपपत्तिः। पर्याप्त्यतिप्रसक्तधर्मस्य तदनवच्छेदकत्वे गत्यन्तरं चिन्तनीयम्। । इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे तद्धितार्थविवरणम् । अथाख्यातविवरणम् धातुप्रकृतिकाश्च लकारकृत्सन्यपिच्प्रभृतयः प्रत्ययाः केचिद्धात्वान्वितसाधकतमत्वं ब्रुवते । अर्थान्तरमनभिदधानाश्च केचिदाकाङ्क्षानिर्वाहकतया प्रकृतिभिः स्वीयार्थबोधन एवोपकुर्वते। तत्र लडादिदशलकाराणां लः कर्मणि च भावे चाकर्मकेभ्य इति सूत्रेण कर्तृकर्मभावेष्वनुशिष्टानां कर्तृत्वसामान्यमर्थः। तावन्मात्राभिधानेनैव प्रथमान्तपदोपस्थाप्यविशेषणतया तदन्वयेन कृतिविशिष्टस्य कर्तुर्बोधनिर्वाहात्। लकारस्य तद्बोधकतया न लःकर्मणीतिसूत्रविरोधः,बोधकताया एव तत्र सप्तम्यर्थत्वात् , न तु वाचकतायाः। गौरवेण विशिष्टधर्मिणि शक्तेर्वाधात् । मैत्रः पचतीत्यादौ लकारे प्रथमान्तपदसामानाधिकरण्यप्रवादस्याभेदेन तदर्थान्वितस्वार्थबोधपरत्वाभावेऽपि कथंचिदुपपादनसंभवात् । तृतीयायाः साधुतानियामकं लकारादिना कर्तुरनभिधानमपि कर्तृत्वविशिष्टाबोधनमेव, न तु विशिष्टशक्त्याऽबोधनपर्यन्तमतो विशिष्टस्य लकारावाच्यत्वेऽ

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368