Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
पौषादिपदार्थ० ] जयाऽलकृतः
३१६ मुख्यार्थः का क्षतिः । तत्र लक्षणया सौरमासे पौषव्यवहारस्योपगन्तव्यत्वात् । स्थलपद्मादौ पङ्कजव्यवहारवदिति चेत्तर्हि तत्र पौषादिपदमुख्यार्थमासनिमित्तकाब्दिकश्राद्धादिविलोपप्रसङ्गः। यथाश्रुतशूलपाणिग्रन्थानुसारिणस्तु धनुरादिस्थरव्यारब्धशुक्ल प्रतिपदादिदर्शान्तेषु धनुरादिस्थरविसमाप्यमकरादिस्थरविसंक्रान्तिमन्मासाभिन्नधनुरादिस्थरव्यधिकरणशुक्ल प्रतिपदादिदर्शान्तेषु वा पौषादिपदस्य रूढत्वमेव स्वीकुर्वन्ति, न तु यौगिकत्वम् । “अन्त्योपान्त्यौ त्रिभौ ज्ञेया" विति वचनात् । पौषादिमासीयपौर्णमास्यां पुष्यादियोगस्यानियमात् । न च योगानादरे लाघवात्तत्तद्राशिस्थरविविशिष्टकालरूपसौरादिमास एव पौषादिपदशक्तिरुचितेति वाच्यम् । सा वैशाखस्यामावास्या या रोहिण्या संम्बध्यते इत्यादिश्रुतिबलाचान्द्र एव वैशाखादिपदशक्तिसिद्धेः । वस्तुतो नक्षत्रेण युक्तः काल इत्यत्र नक्षत्रयोगयोग्यत्वमेव विवक्षितम् । पुष्याद्ययुक्तायामपि पौषादिपूर्णिमायां पौष्यादिव्यवहारात् । अन्यथा माध्यां यदि मघा नास्तीत्यादेरसंगत्यापत्तेः पुष्यादियोगयोग्यता च धनुरादिस्थरव्यारब्धपक्षीयत्वं तद्रपाक्रान्तपौणमासीघटितत्वरूपयोगलभ्यतावच्छेदकं नियतमेव पौषादेरिति नोक्तानुपपत्त्या यौगिकत्वनिराकरणसंभवस्तत्पदानाम् । अथैवं निरुक्तरूपस्य पुष्याद्यघटिततया तेन रूपेण पूर्णिमाबोधकपौष्यादिशब्दानां यौगिकत्वप्रसक्तिरेव नास्ति पौषी रात्रिरित्यादौ पुष्यादियोग एव प्रतीयते न तु निरुक्तं योग्यत्वम् । मकरादिस्थरव्यारब्धकृष्णपक्षीयरात्र्यादावपि तथा व्यवहारादिति नक्षत्रेण युक्तः काल इत्यत्र योग एव विवक्षणीयो न तु योगयोग्यत्वमिति पौर्णमास्यां पौष्यादिपदस्य न यौगिकत्वसंभवश्वेद्भवतु पौष्यादिपदं निरुक्तरूपावच्छिन्नपूर्णिमारूढमेव पौषादिपदानां तद्योगपुरस्कारेण मासवाचकत्वे बाधकाभावाद्यौगिकत्वं कथं प्रत्याख्येयम् । न च सास्मिन्पौर्णमासीति सूत्रस्यास्मिन् पौष्या

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368