Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 305
________________ पञ्चमी ] जयाऽलङ्कृतः २६७ च्छिन्नव्यापारोपस्थितिस्तादृशावधिमत्त्वान्वये च धातुजन्यविभागमुख्यविशेष्यको पस्थितिर्हेतुरिति त्यजधातुजन्यविभागावच्छिन्नव्यापारोपस्थितिविषयव्यापारविभागयोः पञ्चम्यर्थविभागजनकत्वावधिमत्त्वान्वयासंभव इति वाच्यम् । फलव्यापारयोः पृथग्धात्वर्थतामते त्यजधातोरपि प्राधान्येन विभागस्य तद्नवच्छिन्नस्पन्दुस्य चोपस्थित्या तदुपस्थितिविपयतादृशार्थयोरपि तत्तत्पञ्चम्यर्थान्वयसंभवादिति चेन्न । फलावच्छिन्नव्यापारस्य धात्वर्थतामते उक्तरीत्यैव सामञ्जस्यात् । तयोः पृथग् धात्वर्थतामते च फलविषयकबोधं जनयतु धातुपदमित्येतादृशेच्छारूपा फलव्यापारयोरेकैव शक्तिः, पुष्पवन्तादिपदवत् । न तु फलविषयकं व्यापारविषयकं बोधं जनयत्विति समूहालम्बनात्मकबोधनिष्ठतत्तद्विषयकत्वावच्छिन्नविभिन्नविषयताशालिसंकेतरूपा । तथा सति नानार्थत्वाविशेषेण कदाचित्फलव्यापारयोरेकैकपरित्यागेनाप्येकैकस्य बोधप्रसङ्गात् । तथा च विभागे पञ्चम्यर्थावधिमत्त्वान्वयबोधे सङ्केतीयबोधनिष्ठविपयत्वांशे विभागेतर विषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं क्रियांशे विभागजनकत्वरूप पञ्चम्यर्थान्वयबोधे च तादृशबोधनिष्ठविपयतांशे विभागविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं हेतुरुपेयत इति त्यजधातोस्तादृशज्ञानमभ्रान्तस्यासंभवीत्यतिप्रसङ्गानवकाशात् । शक्तिद्वयादिवद्दर्शितैकशक्तेरपि कर्मप्रत्ययस्थले फलव्यापारयोर्विशेषणविशेष्यभाववैपरीत्येन शाब्दबोधसंभवात् । विशिष्टशक्तावेव विशेषणविशेष्यभावविपर्यासानिर्वाहात् । यदि च फलव्यापारयोः शक्तिभेदे एकार्थपरित्यागेनापरार्थबोधप्रसङ्गवदुक्तरूपसङ्केतोपगमेऽपि पुष्पवन्तपदशक्त्यविशेषेण तत इव सकर्मकधातुतोऽपि विशेणविशेष्यभावानापन्नस्यैवान्वयबोधः स्यान्न तु तदापन्नार्थद्वयविषयक इत्युच्येत तदा संकेतस्य बोधांशे विशेषणतया भासमानयोः फलव्यापारविषयकत्वयोरवच्छेद्यावच्छेदकभावाव -

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368