Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 321
________________ सप्तमी ] जयाऽलङ्कृतः ३१३ भवतीत्यध्याहारः । अथ वा सप्तम्यधिकरणे चेति चकारेणाकारकाधारवाचिनोऽपि सप्तमी। अत एव साध्यवद्भिन्नसाध्याभाववदवृत्तित्वमित्यत्र साध्यवद्भिन्ने यः साध्याभाव इति सप्तमीतत्पुरुषेण व्याख्यानं संगच्छते तत्र क्रियाध्याहारे सापेक्षतयाऽसामर्थ्येन समासानुपपत्तेः। ___ चर्मणि द्वीपिनमित्यादौ निमित्तात्कर्मयोग इत्यनेन सप्तमीप्रकृत्यर्थचर्मादेहननादिक्रियानिमित्तत्वं बोधयति । निमित्तत्वं च न कारणत्वम् । चर्मादेहननादिक्रियाकारणत्वे मानाभावात् । पूर्ववर्तित्वेऽपि इच्छाकृत्यादिना अन्यथासिद्धत्वात्। अपि तु क्रियाजनिका या विनियोज्यत्वेनेच्छा तद्विषयत्वं स्वविषयकतादृशेच्छाधीनत्वमेव । तत्र क्रियान्वयी सप्तम्यर्थः। तदेकदेशविषयितायां निरूपकत्वेन प्रकृत्यर्थान्वयः । चर्मादेर्घात्यव्याघ्रादेः संबन्धश्च न सप्तम्यर्थः । अपि तु सप्तम्याः साधुत्वे स्वरूपसन्नपेक्षितः।। गोषु दुह्यमानासु गत इत्यादौ यस्य च भावेनेत्यनेन गवादिपदात्सप्तमी तत्समानाधिकरणदुह्यमानादिपदाच्च नीलं घटमानयेत्यादौ नीलादिपदाद्वितीयावद्विशेषणपदस्य विशेष्यपदसमानविभक्तिकत्वनियमात् । सप्तमीविधायकसूत्र च भावपदं क्रियापरम् । तथा च यद्विशेषणकृदन्तार्थविशेषणतापन्नक्रियया क्रियान्तरस्य लक्षणं व्यावर्त्तनं तद्वाचकपदात्सप्तमीति तदर्थः। उक्तस्थले गमनादिक्रियादोहनादिसमानकालीनत्वादिपुरस्कारेण बोध्यतयाभिप्रेता। अतो व्यावर्त्तकविशेषणप्रविष्टतादृशक्रियाया अपि व्यावर्त्तकतया तत्कर्माद्यभेदान्वयविशेष्यगवादिपदात्सप्तमी। अतस्तादृशसप्तम्याः समानकालीनत्वादिकमात्रमर्थः। तत्र दुह्याद्युपस्थापितदोहनादेनिरूपकत्वेनान्वयादोहनसमानकालीनत्वादिकं गमनादौ लभ्यत इति न युक्तम् । दुह्याद्युपस्थापितक्रियायाः कृदर्थविशेषणतयोपस्थितायाः समानकालीनत्वादिविशेषणत्वासंभवात्, प्रकृत्यर्थगवादिनान

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368