Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 319
________________ सप्तमी ] जयाऽलङ्कृतः ३११ अथ सप्तमीविवरणम् आधारसप्तम्या आधेयत्वमर्थः । तस्य क्रियायामन्वयः। आधाराधेयभावश्च न संयोगादिरूपसंबन्धात्मकः । कुण्डादिसंयोगिनो बदरादेरपि कुण्डाधारताप्रसङ्गात् । अपि तु पदार्थान्तरमेव । स च संबन्धविशेषावच्छिन्नः संयोगेनाधिकरणं समवायेनाधिकरणमित्यादिव्यवहारात् । अथ वोक्ताऽतिप्रसङ्गभिया संयोगेनाधारत्वमेवातिरिक्तम् । समवायसंबन्धावच्छिन्नं च समवायादिरूपमेव। न च समवायस्य संबन्धत्वेन द्विष्ठतया रूपादेरपि पटाद्यधिकरणताप्रसङ्गः। तथा सति तुल्ययुक्तयाधिकरणत्वस्यापि द्विष्ठतया तादृशातिप्रसङ्गस्य दुर्वारत्वात् । यदि चाधारताया आधारेऽनुयोगित्वं संबन्धः अाधेये च प्रतियोगित्वमिति संबन्धवैलक्षण्यानातिप्रसङ्गः, आधारतानुयोगिताया एवाधारव्यवहारप्रयोजकत्वादित्युच्यते, तदा समवायस्यापि तद्वैलक्षण्येनातिप्रसङ्गवारणादतिरिक्ताधारतायां मानाभावात्। स्पोद्याधारवाय्वादेः रूपाद्याधारतावारणायाधेयभेदेनाधारत्वमतिरिक्तमिति न सत् । प्राधेयभेद भिन्नाधिकरणतानामतिरिक्तसमवायस्य च कल्पनामपेक्ष्याऽऽधेयभेदेन समवायभेदस्यैवोपगन्तुमुचितत्वात् । अथ संयोगेनाधिकरणत्वमपि संयोगरूपमस्तु । कुण्डबदरादिसंयोगानां कुण्डादिकमनुयोगि न तु बदरादिकमिति नातिप्रसङ्गः। न चैवमपि कुण्डादेः कुण्डादिनिष्ठसंयोगानुयोगितायाः कुण्डाधारतापत्तिः। तादृशसंयोगस्य कुण्डादिनिष्ठत्वेऽपि तत्प्रतियोगिकत्वानुपगमात्तत्प्रतियोगिकसंवन्धानुयोगिताया एव तदाधारव्यवहारप्रयोजकत्वात्। न चासौ संयोगो बदरादौ कुण्डविशिष्टबुद्धिप्रयोजकतयोभयानुयोगिक एक एवमुभयप्रतियोगिकोऽपीति वाच्यम् । आधेये संयोगेनाधिकरणविशिष्टबुद्धेरप्रामाणिकत्वात् , कुण्डे वदरमित्यादिविशिष्टबुद्धौ संयोगप्रतियोगिताया एव संबन्ध

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368