Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
प्रथमा ]
देवक्यार्थबोधस्य भोजनादिप्रवृत्तेश्च निर्वाहात् चैत्रेत्यादिप्रथमान्तपदप्रयोगोऽनर्थक इति चेन्न | संबोध्यतानुमापकासाधारणाभिमुख्यादिविरहे विशिष्य चैत्रत्वाद्यवच्छिन्ने युष्मत्पदशक्तिग्रहनिर्वाहस्यैव तत्प्रयोजनत्वात् । चैत्रत्वाद्यवच्छिन्ने बोध्यत्वग्रहं विना संवोध्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नवाचकयुष्मत्पदस्य विशिष्यचैत्रत्वाद्यवच्छिन्ने शक्तेर्निश्वेतुमशक्यत्वात् । न चैवमपि यत्रानन्तरवाक्यं न युष्मच्छन्द घटितं चैत्रात्र घटोऽस्तीत्यादौ तत्र संबोधनपदसार्थक्यं दुरुपपादमेवेति वाच्यम् । तत्रापि तत्तद्वाक्ये स्वीयवाक्यार्थबोधार्थोच्चरितत्वरूपतात्पर्यनिश्चयार्थमेव तत्पदप्रयोगात् । तादृशतात्पर्यनिश्चयं विना श्रुतादपि तत्तद्वाक्याश्चैत्रादेः शाब्दबोधासंभवात् । चैत्रस्याश्वानयनादिबोधाय मैत्रस्य च लवणानयादिबोधायोच्चरितात्सैन्धवमानयेति वाक्याद्वैपरीत्येन चैत्रमैत्रयोस्तत्तद्वाक्यार्थबोधवारणाय तदीयतदर्थबोधे तदीयतद्बोधार्थोच्चरितत्वरूपतात्पर्यनिश्चयस्य हेतुताया श्रावश्यकत्वात् । संख्यातिरिक्तसुबर्थः प्रकृत्यर्थविशेष्यतयैव भासत इति नियमे संख्याभेदवत्संबोधनभेदोऽपि निवेशनीयः । अतः संबोधनस्य प्रकृत्यर्थविशेषणतया भानेऽपिन क्षतिः । संबोधनस्य प्रकृत्यर्थविशेष्यतयैव वा भानमुपेयम् । वस्तुतो नामार्थस्य प्रकृतिप्रत्ययार्थमन्तरा कृत्वैव क्रियान्वय इत्यनुरोधात्सुवर्थ कर्मत्वादेः प्रकृत्यर्थविशेष्यतयैव भानमुपेयते न तूक्तनियमानुरोधेन । तथा नियमे मानाभावात् । संबोधनविभक्तयन्तप्रकृत्यर्थस्यान्यत्र विशेषणतयाऽन्वयात्संबोधनस्य विशेष्यतया भानं नियुक्तिकमिति कृतं विस्तरेण ।
जयाऽलङ्कृतः
इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे सम्बोधनविवरणम् ।
३१५

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368