Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
३०० व्युत्पत्तिवादः
[ कारके कत्वगवादिकर्तकत्वोभयाभावबोधाय केषां चित्प्रयासोऽनादेय एवेति । पण्डितात्पुराणं शृणोति, उपाध्यायादर्धाते, रामादधीतसंदेश, इत्यादावाख्यातुराख्यातोपयोग इत्यनेनापादानता। तत्र प्रकृत्यर्थपण्डितादिकतकोचारणाधीनत्वं पञ्चम्यर्थः। तस्य च श्रवणोच्चारणार्थविशेषज्ञानादिक्रियायामन्वयः। मृत्पिण्डाद् बटोजायते इत्यादौ जनिकर्तुःप्रकृतिरित्यनेनापादानत्वम् । तत्र प्रकृतित्वं न विकारित्वम्। प्रकृतिविकृतिभावाभावेऽपि 'प्राक्केकयीतो भरतस्ततोऽभूद्', 'वायोर्जात' इत्यादौ पञ्चमीदर्शनात् । न हि सुतवपुषो मातापितृशरीरविकारत्वमपि तु तदीयशुक्रशोणितादिविकृतित्वमेव । शुक्रशोणितादेः शरीरस्थत्वेऽपि मलमूत्रादेरिव शरीरावयवत्वाभावात् । न च तत्र हेतुपञ्चम्येव नापादानपञ्चमीति वाच्यम् । गुणातिरिक्तहेतौ पञ्चम्यनुशासनविरहात्। अन्यथा दुग्धादधि जायते, मृत्तिकाभ्यो घटो जायते, शृङ्गाद्धनुर्जायत इत्यादावपि हेतुपञ्चम्यैवोपपत्तौ जनिकर्तुरित्यादिसूत्रस्यैव वैयर्थ्यांपत्तेः । तस्मात्कारणत्वमेव प्रकृतित्वम् । दण्डाद्धटो जायत इत्यादयोऽपि प्रयोगा इप्यन्त एव । अतएवेश्वरस्य द्रव्यादिकार्याप्रकृतित्वेऽपि यतो द्रव्यं गुणाः कर्मेत्यादौ पञ्चमी न च प्रकृतिपदेन कारणमात्रविवक्षायामपि क्रियाविवक्षाभावादपादानपञ्चम्यनुपपत्तिहेतुपञ्चमी च प्रकृतेऽनुपपन्नैवेति वाच्यम् । अगत्या जायत इत्यादिक्रियाध्याहारेण तत्र पञ्चम्या उपपादनीयत्वात् । हिमवतो गङ्गा प्रभवतीत्यादौ भुवः प्रभव इत्यनेनापादानता । यत्संबन्धात्प्रभवनं प्रथमप्रकाशः स प्रभवः। प्रथमप्रकाश एव प्रभवत्यर्थः। पञ्चम्यर्थः संबन्धाधीनत्वं तादृशक्रियायामन्वेति । संबन्धे च हिमवदादेः प्रकृत्यर्थस्यान्वयः। उपाध्यायादन्तर्द्धत्ते छात्र इत्यादावन्तद्धौं येनादर्शनमिच्छतीत्यपादानता। अन्तर्द्धिरन्तर्धानम् । स्वनिष्टान्यकर्तृकदर्शनविण्यताविरहोद्देश्यको व्यापारः। एवं च व्यापारानुकूलतयान्तर्द्धानघटको यत्कर्तृकदर्श

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368