Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
३०७
षष्ठी ]
जयाऽलङ्कृतः सनस्य विधित्वमेव स्यात् । अत एव च "आमं शूद्रस्य पक्कान्नं पक्कमुच्छिष्टमुच्यत" इत्यत्र पकमित्यनुषज्यमानायाः षष्ठयाः संबन्धत्वेन कर्तृत्वमर्थः न तु स्वत्वम् । शूद्रकर्तृकवृषोत्सर्गे चरुहोमानुपपत्तेरिति नवीनस्मार्त्तानां मतमप्युपपद्यते । न च तत्र कृद्योगा षष्ठी कर्तृत्वत्वेनैव बोधयतीति वाच्यम् । निष्ठायोगे तस्या निषेधात् । अत एव "नाग्निस्तृप्यति काष्ठानां न पुंसां वामलोचना" इत्यादौ करणत्वादेः संबन्धत्वेन विवक्षया षष्ठयुपपत्तिः । तृतीयादिविधिविषयतया विशेषरूपेण करणत्वादिसंबन्धविवक्षायां षष्ठयनुपपत्तेः । अथ संबन्धत्वेन संम्बन्धस्य षष्ठीवाच्यत्वे पुरुषस्य दण्ड इत्यादौ दण्डस्य पुरुष इत्यादिरपि प्रयोगः स्यात् । दण्डी पुरुषो रूपवान् घट इत्यादिवढ्ण्ड रूपादेः पुरुषघटाद्यनाधारत्वेऽपि पुरुषी दण्डो घटवदूपमित्यादिः प्रयोगो दुर्वारः, तदत्रास्तीत्यर्थ इव तदस्येत्यर्थे मतुपो विधानात् । दण्डरूपादिपदोत्तरषष्ठया चैत्रघटादिनिष्ठतदर्थसंबन्धप्रतिपादने तदुत्तरमत्वर्थीयस्य प्रसंगादिति चेत् । विशिष्य केषांचित्संबन्धानां षष्ठयर्थतोपगमेऽपि घटस्य रूपमित्यादिप्रयोगानुरोधेन समवेतत्वादेः षष्ठयर्थताया आवश्यकत्वेन हस्तस्य चैत्रः, चैत्रवान् हस्तः, शाखाया वृक्षः, वृक्षवती शाखेति कथं न प्रयुज्यते, पूर्वप्रयोगाभावादिति चेत्तुल्यम् । नराणां क्षत्रियः शूरो नरेषु वा, अध्वगानां रथगामिनः शीव्रतरा अध्वगेषु वा, गवां कृष्णा संपन्नक्षीरा गोषु वेत्यादौ यतश्च निर्धारणमित्यनेन षष्ठीसप्तम्यौ विधीयते । तदर्थश्च जात्यादिविशेषणविशिष्टयद्धर्मावच्छिन्नस्य ताहशविशेषणशून्यतद्धर्मावच्छिन्नव्यावृत्तत्वविशिष्टविधेयवत्तया प्रतिपादनं तद्धर्मावच्छिन्नार्थकपदात्षष्ठीसप्तम्याविति । प्रकृते च क्षत्रियत्वादिविशेषणविशिष्टे नरादौ तच्छून्यनरादिव्यावृत्तत्वेन शौर्यविशेपादिरूपविधेयसंबन्धोऽभिमत इति नरादिपदात्षष्ठी । नरेभ्यो राक्षसाः शूरतमा इत्यादौ राक्षसत्वादिविशेषणविशिष्टे तच्छून्यनरा

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368