Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 303
________________ पञ्चमी ] जयाऽलङ्कृतः २६५ भेदप्रतियोगितावच्छेदकत्वे विभागे पञ्चम्याः शक्तिद्वयम् । भेदे विभागे च वृक्षादेः प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। प्रतियोगितावच्छेदकत्वमाश्रयत्वसंबन्धेन विभागश्च जनकतासंबन्धेन क्रियायामन्वेति । जनकतासंबन्धस्य प्रतियोगितानवच्छेदकतया नया तत्संबन्धावच्छिन्नविभागाभावः क्रियायां बोधयितुं न शक्य इति चेत्तर्हि विभागजनकखमेव पञ्चम्यर्थोऽस्तु प्रतियोगितावच्छेदकत्वस्येव तस्याप्याश्रयतासंबन्धेन क्रियायामन्वयः । एवं च वृक्षनिष्ठभेदप्रतियोगितावच्छेदकतन्निष्ठविभागजनकपतनाश्रयः पर्णमित्याद्याकारक उक्तस्थले बोधः। अथ पञ्चमीसमभिव्याहृतनञोक्तयोः पञ्चम्यर्थयोर्द्वयोरेवाभावद्वयं बोध्यते, यथायोगमेकतरस्य वा । नाद्यः पक्षः । पर्ण वृक्षात्पतति न स्वस्मादित्यत्र स्वनिष्ठपतने स्वनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावासत्त्वेऽपि स्वनिष्ठविभागजनकत्वाभावासत्त्वेन वृक्षात्पतति न भूतलादित्यत्र पतने भूतलादिनिष्ठविभागादिजनकत्वाभावसत्त्वेऽपि तनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावासत्त्वेनायोग्यतापत्तेः । नापि द्वितीयः । वृक्षात्पर्ण पतति न पर्णादित्यत्र पत्रनिष्ठपतने पत्रनिष्ठविभागाजनकत्वस्येव पत्रान्तरनिष्ठभेदप्रतियोगितावच्छेदकतया पत्रनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्यापि बाधाद्योग्यताया निर्वाहयितुमशक्यत्वादिति। ____ अत्राहुः। विभागो जनकत्वं च पञ्चम्यर्थः । विभागे प्रकृत्यर्थस्यावधिकत्वं संबन्धस्तेन संबन्धेन प्रकृत्यर्थविशिष्टस्य विभागस्य निरूपितत्वविशेषसंबन्धेन जनकत्वेऽन्वयः। जनकत्वं च फलोपधानरूपं विशिष्टनिरूपिततादृशजनकत्वस्य क्रियायां नसमभिव्याहारस्थले च क्रियान्वयिन्यभावे प्रतियोगित्वेनान्वयः । वृक्षपत्रादिविभागजनकपत्रादिकर्म च न पत्राद्यवधिकत्वविशिष्टविभागोपधायकम् । पत्रादेः स्वावधिकत्वविशिष्टविभागानधिकरणत्वेन तत्कर्मणि विशिष्टविभागसामानाधिकरण्याभावात् ।

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368