Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 290
________________ २८२ व्युत्पत्तिवादः __ [ कारके दिजनकत्वसंबन्धसत्त्वेऽपि स्वजन्यत्वाभावानोभयसंबन्धेनेच्छावैशिष्टयमित्ययोग्यतैवेति वदन्ति । अत्रेदं बोध्यम् । उद्देश्यत्वागर्भत्यागजन्यस्वत्वभागित्वस्य ददातिसंप्रदानतारूपत्वे मैत्रोद्देशेन यद्दत्तं तत्र तादृशदानेन दम्पत्योर्मध्यगं धनमित्यतस्तत्पत्न्या अपि स्वत्वस्य प्रामाणिकतया संप्रदानत्वेन चैत्रपस्न्यै दत्तमिति व्यवहारापत्तेः । न च पत्युः स्वत्वमेव पत्नीस्वत्वं जनयति । न तु तत्सामग्रीति वाच्यम्। स्वत्ववति स्वत्वान्तरानुत्पत्तेः। तथा च सर्वत्रैवोद्देश्यत्वान्तर्भावः। भवतु च पितृभ्यो दद्यादित्यत्रापि मुख्यमेव संप्रदानत्वं चतुर्थ्यर्थः । अस्तु वा स्वस्वत्वेच्छाधीनतत्कत्वमेव मुख्यदानरूपक्रियासंप्रदानत्वं पितृस्वत्वाप्रसिद्धया न तेषां संप्रदानत्वं चतु Nों धात्वर्थतावच्छेदकस्वत्वान्वयि निरूपितत्वं स्वत्वस्य च स्वत्वध्वंसेच्छारूपे त्यागे जनकत्वस्वेच्छाधीनत्वोभयसंबन्धः। तल्लाभश्च विशिष्टस्य धातुशक्यतामते शक्तिलभ्य एव, तदन्तर्भावेणैव शक्त्यभ्युपगमात् । फलव्यापारयोः पृथक् धात्वर्थतामते आकाङ्क्षाबलादेव तादृशसंबन्धलाभः । पितृभ्यो दद्यादित्यत्र च धात्वर्थान्तर्गतस्वत्वे चतुर्थ्या पित्राद्यन्वयी निरूपितत्वरूपो मुख्योऽर्थो बाधितत्वान्न प्रत्याय्यते, अपि तु निरूपितत्वेनेच्छाविषयत्वरूपो लक्ष्यार्थ एव । ददातिस्तु तत्र मुख्य एव, श्राद्धस्यापि ब्राह्मणापेक्षयादानत्वात् । श्राद्वे ब्राह्मणस्य संप्रदानतानिहायास्ति चोद्देश्यतापि ब्राह्मणस्येत्यादिकमभिदधानस्य शूलपाणेरपि संप्रदानत्वशरीर उद्देश्यत्वांशपरित्यागे निर्भरोऽवगम्यते। कर्मणा यमभिप्रैतीति प्रणयतो महर्षेः पाणिनेरपि संमतोऽयमर्थः। शत्रवे भयं ददातीत्यादौ जनयतीति भाक्तोऽर्थः। एवं चोत्पादकव्यापाररूपे धात्वर्थे भयरूपं कर्म तद्योगितयोद्देश्यत्वात् शन्वादेः संप्रदानत्वम्।

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368