Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 287
________________ चतुर्थी ] जयाऽलङ्कृतः २७६ अथ चतुर्थीविवरणम् ब्राह्मणाय गां ददातीत्यादौ संप्रदानचतुर्थ्या ब्राह्मणादिसंप्रदानकत्वं दानादौ बोध्यते। संप्रदानत्वं च मुख्यभाक्तसाधारणक्रियाकर्मसंबन्धितया कत्रभिप्रेतत्वम्। क्रियाकर्मत्वं क्रियाजन्यफलशालित्वं तद्वतस्संबन्धस्तनिष्ठफलभागित्वमेव । तपन क्रियाजन्यफलभागितया कर्तुरिच्छाविषयत्वं पर्यवसन्नम् । कर्मणा यमभिप्रैतीत्यस्य कर्मणा यमभिसंबद्धुमिच्छतीति शाब्दिकैर्विवरणादुक्तस्थले त्यागरूपक्रियाजन्यगोनिष्ठस्वत्वभागितया दातुरिच्छाविषयो ब्राह्मण इति तस्य संप्रदानत्वम् । अब निरुक्तस्य संप्रदानत्वस्य कर्मत्वस्याविशेषः । कर्तुरीप्सितेति सूत्रेण कर्तुः क्रियया व्याप्नुमिष्टस्य कर्मसंज्ञाविधानात् । क्रियाया व्याप्तुमिष्टत्वमपि हि क्रियाजन्यफलभागितयेच्छाविषयत्वमेव । न च तथायुक्तमित्यनेन तद्भागितयाऽनभिप्रेतस्यापि तदाश्रयस्य तत्संज्ञाविधानात् । कर्मत्वं क्रियाजन्यफलशालित्वमेवन त्विच्छागर्भम्। संप्रदानत्वं त्विच्छागर्भमतो भेदः। कर्मत्वस्येच्छाऽघटितत्वे सूत्रे तद्वैयर्थ्यांपत्तेः । न च तदाश्रयत्वेनानभिप्रेतस्यापि कमत्वेन तत्साधारणक्रियाजन्यफलशालितयेष्टस्यापि ग्रामादेः कर्मतोपपत्ताविच्छाघटिततत्सूत्रवैयर्थ्यमेवेति वाच्यम् । इच्छाघटितस्य निरुक्तरूपस्य यत्र बाधस्तत्र ताशरूपमपि कर्मप्रत्ययेन प्रतिपाद्यत इत्येतत्प्रतिपादनाय सूत्रद्वयप्रणयनात् । अत एव यत्रौदनस्य गलाधःसंयोगेच्छया यो व्यापारस्ततो विषादेरपि तत्संयोगस्तत्र विषादौ क्रियाजन्यफलशालित्वाभावबाधेऽपि तेन रूपेणेच्छाविषयत्वाभावोऽबाधितस्तत्र विषमनेन न भुज्यत इति प्रयोगोपपत्तिः। इच्छाघटितकर्मत्वतात्पर्येण च देवाद्विषं भुज्यत इति प्रयोगस्य चोपपत्तिः।नच धात्वर्थतावच्छेदकफलशालित्वेनोद्देश्यत्वं कर्मत्वम् । तदनवच्छेदकफलशालित्वेनोहेश्यत्वं संप्रदानत्वमिति

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368