________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
अष्टम उद्देशकः १४०० (A)
पतितो गृहीतस्ते संविग्ना अप्यन्ये असाम्भोगिकास्तेषां देशान्तरगतानामुपधिं गृहीत्वा निष्कारणे परिष्ठापयन्ति, कारण त्ति, यदि ते सर्वे गीतार्था न च तेषामुपधिरस्ति यदि वा तादृश उपधिरन्यो दुर्लभस्तदा एवं कारणे परिभुञ्जते। अथ ते अगीतार्थमिश्रास्तदा परिष्ठाप्यते परिज्ञाप्य वा अगीतार्थान् परिभुञ्जते, एतच्चाऽन्यसाम्भोगिकसत्कतया परिज्ञाते द्रव्ये अपरिज्ञाते प्रागुक्त एव विधिः ॥ ३५६० ॥
बीइयपदे न गिण्हेजा संविग्गाणं पिमेहिं कज्जेहि। आसंकाए न नजति, संविग्गाणं व इयरेसिं॥ ३५६१॥ द्वितीयपदे अपवादपदे संविग्नानामपि पतितमुपधिम् एभिर्वक्ष्यमाणैः कार्यैः कारणैर्न गृह्णीयात्। तान्येवाह-न ज्ञायते किमेष संविग्नानामुत इतरेषामसंविग्नानामित्याशङ्कया पतितं | न गृह्णाति ॥ ३५६१॥
तथाअसिवगहिया व सोउं, ते वा उभयं व होज जइ गहियं। ओमेण अन्नदेसं, च गंतुकामा न गेण्हेज्जा॥ ३५६२॥
गाथा
३५६१-३५६७ विस्मृतोपधि
ग्रहणे परिष्ठापने च विधिः
१४०० (A)
For Private and Personal Use Only