Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 309
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् नवम उद्देशकः १४८१ (B) यद् अलेपकृतं काञ्जिकेन पानीयेन वा सम्मिश्रीकृतं तत् शुद्धम्। अथवा शुद्धोदनो | व्यञ्जनरहितो भवति शुद्धम्, तदपि नियमादलेपकृतम्। संसृष्टं नाम भोक्तुकामेन आत्तं : गृहीतम्। किमुक्तं भवति? यत् स्थाले परिवेषितम् तद्ग्रहणाय हस्तः प्रक्षिप्तो न तावदद्यापि, मुखे प्रक्षिपति, अत्रान्तरे साधुरागतो भिक्षार्थम् तद् लेपकृतमलेपकृतं वा संसृष्टमित्युच्यते। फलितं नाम यद् व्यञ्जनैर्भक्ष्यैर्वा नानाप्रकारैर्विरचितं प्रहेणकादि, प्रहेणकं लाभनकम्। आदिशब्दात् सरजस्कादीनां दानाय कल्पितं परिगृह्यते । उपहृतशब्दस्यार्थमाह-यद् भोक्तुमनस उपहृतं तदुपहृतमित्युच्यते । एषा च पञ्चमी पिण्डैषणा ॥ ३७९९ ॥ ३८०० ॥ सुद्धग्गहणेणं पुण, होइ चउत्थी वि एसणा गहिया । सूत्र ४५ संसटे उ विभासा, फलियं नियमा उ लेवकडं ॥ ३८०१॥ ३७९६-३८०१ उपहृतशुद्धग्रहणेन चतुर्थ्यप्येषणा अल्पलेपकृतानामिका गृहीता [इति]द्रष्टव्यम्। संसृष्टे स्वरूपादिः विभाषा कदाचित् तु लेपकृतं कदाचिन्नेति । फलितं तु नियमाल्लेपकृतमेवेति ॥ |१४८१ (B) सूत्रम्- तिविहे उग्गहिए पण्णत्ते जं च ओगिण्हति १जं च साहरतिर जं च | गाथा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315