Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 313
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् नवम उद्देशकः १४८३ (B) उपहृतसूत्रे पञ्चमी पिण्डैषणा उक्ता,अवगृहीते अवगृहीतसूत्रे पुनरस्मिन् अयं विशेषः, यत् पञ्चमपिण्डैषणातः परा या षष्ठी पिण्डैषणा तस्या अभिधानमिति । तदपि हु निश्चितमलेपकृतं नियमाच्च पूर्वोद्धृतमिति ॥ ३८०६॥ सम्प्रति “दिजंतं जं च होइ पायोग्ग''मित्यस्य व्याख्यामाहभुंजमाणस्स उक्खित्तं, पडिसिद्धं तं च तेण उ । जहण्णोवहडं तं तू, हत्थस्स परियत्तणे ॥ ३८०७ ॥ परिवेषक: पिठरिकायां कूरं गृहीत्वा दक्षिणहस्तेन तलं प्रेर्य यस्य दातुकामस्तस्य भाजने || सूत्र ४६ गाथा क्षिपामि इत्यध्यवसितः, तच्च तथा भुञ्जानस्योत्क्षिप्तम्। तेन भुञ्जानेन प्रतिषिद्धं पर्याप्तम् | ३८०२-३८०७ मा मह्यं देहि अस्मिन् देशकाले साधुना तत्र प्राप्तेन धर्मलाभितम्, ततः परिवेषको ब्रूते- | अवगृहित'साधो! धारय पतद्ग्रहम्,' साधुना पात्रं धारितं तत्र तेन प्रक्षिप्तम्, इदं हस्तस्य हस्तमात्रस्य * स्वरूपम् परिवर्तनात्, गाथायां सप्तमी पञ्चम्यर्थे जघन्यमुपहृतं भवति। एतेन दीयमानम् इति व्याख्यातम्। | |१४८३ (B) यच्च भवति प्रायोग्यमित्यनेन शुद्ध-संसृष्टयोः प्रागुक्तयोरन्यतरद् गृहीतम् ॥ ३८०७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 311 312 313 314 315