Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
नवम
उद्देशक:
१४७१ (A)
܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिमाधिकारः प्रकृतः, तत इमे अपि द्वे मोकप्रतिमे इह भवतः, प्रतिमाप्रस्तावादिमे अपि प्रतिमे अत्रोपन्यस्ते इति भावः । केवलमयं विशेष:- ताः अनन्तरोदिताः प्रतिमा गणे स्थितस्योक्ताः । इमे पुनः पुरादीनां बहिः स्थितस्येति सम्बन्धः ॥ ३७६८ ॥
अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या
द्वे प्रति प्रज्ञप्ते । तद्यथा क्षुल्लिका च मोकप्रतिमा महती च मोकप्रतिमा । मोकः कायिकी, तदव्युत्सर्गप्रधाना प्रतिमा मोकप्रतिमा । तत्र क्षुल्लिका णं इति प्राग्वत् मोकप्रतिमां प्रतिपन्नस्याऽनगारस्य कल्पते से तस्य प्रथमनिदाघकालसमये वा चरमनिदाघकालसमये वा बहिर्ग्रामस्य वा, यावत्करणाद् नगरादिपरिग्रहः, राजधान्यां वा, [ बहिः ] वने वा एकजातीयद्रुमसङ्घाते, वनविदुर्गे वा नानाजातीयद्रुमसङ्घाते, पर्वते प्रतीते, पर्वतविदुर्गे अनेकपर्वतसङ्घातरूपे, भुक्त्वा यदि प्रतिमाम् आरोहति प्रतिपद्यते तदा चतुर्दशेन भक्तेन पारयति समापयति, अथाऽभुक्त्वा आरोहति तदा षोडशकेन भक्तेन पारयति, तेन च जातं मोकं कायिकीम् आपातव्यम् । [ यदा यदा मोक आगच्छति तदा तदा आपातव्यम् ] आगमने च दिवा आगच्छति [ आपातव्यं, रात्रिंम् आगच्छति नापाताव्यं, सप्राणे मात्रके
For Private and Personal Use Only
सूत्र ४१-४२ गाथा ३७६८-३७६९ * मोकप्रतिमास्वरूपम्
१४७१ (A)

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315