SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् नवम उद्देशक: १४७१ (A) ܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिमाधिकारः प्रकृतः, तत इमे अपि द्वे मोकप्रतिमे इह भवतः, प्रतिमाप्रस्तावादिमे अपि प्रतिमे अत्रोपन्यस्ते इति भावः । केवलमयं विशेष:- ताः अनन्तरोदिताः प्रतिमा गणे स्थितस्योक्ताः । इमे पुनः पुरादीनां बहिः स्थितस्येति सम्बन्धः ॥ ३७६८ ॥ अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या द्वे प्रति प्रज्ञप्ते । तद्यथा क्षुल्लिका च मोकप्रतिमा महती च मोकप्रतिमा । मोकः कायिकी, तदव्युत्सर्गप्रधाना प्रतिमा मोकप्रतिमा । तत्र क्षुल्लिका णं इति प्राग्वत् मोकप्रतिमां प्रतिपन्नस्याऽनगारस्य कल्पते से तस्य प्रथमनिदाघकालसमये वा चरमनिदाघकालसमये वा बहिर्ग्रामस्य वा, यावत्करणाद् नगरादिपरिग्रहः, राजधान्यां वा, [ बहिः ] वने वा एकजातीयद्रुमसङ्घाते, वनविदुर्गे वा नानाजातीयद्रुमसङ्घाते, पर्वते प्रतीते, पर्वतविदुर्गे अनेकपर्वतसङ्घातरूपे, भुक्त्वा यदि प्रतिमाम् आरोहति प्रतिपद्यते तदा चतुर्दशेन भक्तेन पारयति समापयति, अथाऽभुक्त्वा आरोहति तदा षोडशकेन भक्तेन पारयति, तेन च जातं मोकं कायिकीम् आपातव्यम् । [ यदा यदा मोक आगच्छति तदा तदा आपातव्यम् ] आगमने च दिवा आगच्छति [ आपातव्यं, रात्रिंम् आगच्छति नापाताव्यं, सप्राणे मात्रके For Private and Personal Use Only सूत्र ४१-४२ गाथा ३७६८-३७६९ * मोकप्रतिमास्वरूपम् १४७१ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy