Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
क्षयमागते । स्वपापकर्म निन्दन्तः, संवेगामृतशीतलाः ॥ ३४॥ त्रयोऽपि प्राप्तचारित्राः, शुक्लध्यानकशालिनः । आसाद्य केवलज्ञानं, मुक्तिमीयुर्मुनीश्वराः ॥ ३५ ॥ कोटाकोटिमिता जन्तोः, सप्तानामपि कर्मणाम् । स्थितियंदा भवेद्धर्मे, रुचिः स्यादाहते तदा ।। ३६ ।। यतः-- सत्तण्हं पयडीणं, अभितरओ अ कोडाकोडीणं । काऊण सागराण जइ लहइ चउण्हमन्नयर ॥ ३७ ॥ तवाप्ययं तनूजन्मा, क्रमादत्रेव जन्मनि । भूयोभावमले क्षीणे, भावी समर्मतत्परः ॥ ३८ ॥ ततः पुण्यानुभावेन, भवे राजन् ! तृतीयके । भविष्यति विदेहोर्नीमण्डनं श्रीजिनेश्वरः ॥३९॥ एवं गुरोगिर श्रुत्वा, प्रबुद्धः पृथिवीपतिः । प्रदाय सूनवे राज्यं, निजं तस्मै कृतोत्सवम् ॥ ४० ॥ जग्राह संसृतिग्राहमुक्ता मुक्ताफलोज्ज्वलाम् । तपस्यां तपसा प्राज्यां, भवकोटिरजोऽपहाम् ।। ४१ ॥ प्रपद्यमानश्चारित्रं, पवित्रो भूपतिस्तदा । बभूव केवलज्ञानी, शुक्लध्यानानुभावतः ॥ ४२ ।। युग्मं ॥ राजापि कनककेतुः, प्रतापप्रथितप्रभः । न्यायेन पालयामास, प्रजा इव निजप्रजाः ॥ ४३ ॥ दावज्वरेण तीत्रेणान्यदा तप्तवपुर्नृपः । निद्रादरिद्रः शुश्राव, श्लोकं दुःखातुरो निशि ॥ ४४॥ सुखाय सर्वजन्तूनां, प्रायः सर्वाः प्रवृत्तयः । न धर्मेण विना सौख्यं, धर्मश्चारम्भवर्जनात् ॥ ४५ ॥ ततः संजातसंवेगो, हृद्येवं ध्यातवान्नृपः । प्रातव्रतं गृहीष्यामि, मुक्त्वा मोहं भवोद्भवम् ॥ ४६॥ एवं विदधतस्तस्य, धर्मकर्ममनोरथम् । सखी सुखस्य निद्राऽऽगात्सर्वरोगोपशान्तितः ॥ ४७॥ ततः प्रातः पवित्रात्मा, कृतपथ्यक्रियाविधिः । निवेद्य सचिवादीनां, वृत्तान्तं रजनीभवम् ॥ ४८ ॥ हेमकोटिव्ययं कृत्वा, सुपात्रेषु प्रमोदतः । तनूज
x सप्तानां प्रकृतीनां अश्यन्तरतश्च कोटीकोट्याः । कृत्या सागरोपयाणां यदि लभते चतुर्णामन्यनरत् ॥३७|| १ भवप्रतिबन्धादिरहिता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196