SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ क्षयमागते । स्वपापकर्म निन्दन्तः, संवेगामृतशीतलाः ॥ ३४॥ त्रयोऽपि प्राप्तचारित्राः, शुक्लध्यानकशालिनः । आसाद्य केवलज्ञानं, मुक्तिमीयुर्मुनीश्वराः ॥ ३५ ॥ कोटाकोटिमिता जन्तोः, सप्तानामपि कर्मणाम् । स्थितियंदा भवेद्धर्मे, रुचिः स्यादाहते तदा ।। ३६ ।। यतः-- सत्तण्हं पयडीणं, अभितरओ अ कोडाकोडीणं । काऊण सागराण जइ लहइ चउण्हमन्नयर ॥ ३७ ॥ तवाप्ययं तनूजन्मा, क्रमादत्रेव जन्मनि । भूयोभावमले क्षीणे, भावी समर्मतत्परः ॥ ३८ ॥ ततः पुण्यानुभावेन, भवे राजन् ! तृतीयके । भविष्यति विदेहोर्नीमण्डनं श्रीजिनेश्वरः ॥३९॥ एवं गुरोगिर श्रुत्वा, प्रबुद्धः पृथिवीपतिः । प्रदाय सूनवे राज्यं, निजं तस्मै कृतोत्सवम् ॥ ४० ॥ जग्राह संसृतिग्राहमुक्ता मुक्ताफलोज्ज्वलाम् । तपस्यां तपसा प्राज्यां, भवकोटिरजोऽपहाम् ।। ४१ ॥ प्रपद्यमानश्चारित्रं, पवित्रो भूपतिस्तदा । बभूव केवलज्ञानी, शुक्लध्यानानुभावतः ॥ ४२ ।। युग्मं ॥ राजापि कनककेतुः, प्रतापप्रथितप्रभः । न्यायेन पालयामास, प्रजा इव निजप्रजाः ॥ ४३ ॥ दावज्वरेण तीत्रेणान्यदा तप्तवपुर्नृपः । निद्रादरिद्रः शुश्राव, श्लोकं दुःखातुरो निशि ॥ ४४॥ सुखाय सर्वजन्तूनां, प्रायः सर्वाः प्रवृत्तयः । न धर्मेण विना सौख्यं, धर्मश्चारम्भवर्जनात् ॥ ४५ ॥ ततः संजातसंवेगो, हृद्येवं ध्यातवान्नृपः । प्रातव्रतं गृहीष्यामि, मुक्त्वा मोहं भवोद्भवम् ॥ ४६॥ एवं विदधतस्तस्य, धर्मकर्ममनोरथम् । सखी सुखस्य निद्राऽऽगात्सर्वरोगोपशान्तितः ॥ ४७॥ ततः प्रातः पवित्रात्मा, कृतपथ्यक्रियाविधिः । निवेद्य सचिवादीनां, वृत्तान्तं रजनीभवम् ॥ ४८ ॥ हेमकोटिव्ययं कृत्वा, सुपात्रेषु प्रमोदतः । तनूज x सप्तानां प्रकृतीनां अश्यन्तरतश्च कोटीकोट्याः । कृत्या सागरोपयाणां यदि लभते चतुर्णामन्यनरत् ॥३७|| १ भवप्रतिबन्धादिरहिता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy