Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अक्षयातिविधिश्चाश्व्यवहारिविधिस्तथा । परिकम विधिः प्रोक्तः, समस्तश्रुतसंपदाम् ॥ २६ ॥ इत्यादि श्रीजिनागमस्य द्रव्यभावाभ्यां द्विपकारा भक्तिः, तत्राद्या श्रीजिनागमहृयपुस्तकलेखननानाविधज्ञानोपकरणनिर्माणादिना श्रुतवतां वस्त्रपात्र पुस्तकदानविशुद्धानपानार्पणविश्रापणाभ्युत्थानबहुमानदानादिना च भवति, एषाऽपि सम्यग्भावांगतया महते लाभाय भवति, यतः-पुस्तकेषु विचित्रपु, श्रीजिनागमलेखनम् । तत्पूजावस्तुभिः पुण्यद्रव्याराधन प्नुच्यते ॥ २७ ॥ पापामयापधं शास्त्र, शास्त्रं पुण्यनिबंधनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ।। २८ ॥ लौकिका अप्याहुः-यावदक्षरसख्यानं, विद्यते शास्रमचये । तावर्षसहस्राणि, स्वर्ग विद्याप्रदो भवेत् ॥ २९ ॥ श्रीजिनागमपूजेय, भवजाड्यविधानिनी । केवलज्ञानजननी, कृता भवति भाविनाम् ॥ ३० ॥ भावभक्तिस्तु विधिना श्रीजिनागमपठनपाठनतदर्थविलोकनवाचनदाननत्युस्न कालिखनशोधनजीर्णोद्धारादिना भवति, यतः-श्रवणं श्रद्दधान च, पठन पाठनं तथा । तद्विदा बहुमानश्च, भावभक्तिः प्रकीर्तिता ॥ ३२ ॥ क्रियते येन निव्याज, द्रव्यभावप्रकारतः । श्रुतज्ञानस्य सद्भक्तिः सम्यग् श्रुतवतां तथा ॥ ३३ ॥ तीर्थकरैश्चय, मोदते मुक्तिसंपदा । असौ विश्वातिशायिन्या, रत्नचूडनरेंद्रवत् ॥३४॥ युग्मं । तथाहि-अस्ति स्म भरतक्षेत्र, पवित्र जैनवेइमामः । तालिप्तीपुरी पोरगुणसौरभशालिनी ॥ ३५ ॥ यस्यामुन्नतवंशाढ्याः, करिणो व्यवहारिणः । भदवारिश्रियोपेताः, श्रयंति संपदं सदा ॥ ३६ ॥ रत्नशेखरनामाऽऽसी
त्तस्यां राजा कलालयः । श्रीमान् कुवलयोल्लासी, सदा मृदुकरस्थितिः ॥ ३७ ॥ पिया रत्नावली तस्य, बभूव | गुणसंश्रया । धनुलेतेव सदशा, नमदाकारधारिणी ॥ ३७ ।। तयोः सूनुरनूनश्री, रत्नचूदभिधोऽजनि । निजोदयेन
।
Jain Education International
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196