Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
खिलजंतुजातानंदाविर्भावना प्रभावना विधेया, यत:-'अलद्धपुवमि भवोदयंमि, लहंति तित्थस्स पभावणाए । तित्यसरतं अमरिंदपूज, दसारसाहो इव सेणिओ चा॥१॥ सा च जिनेंद्रपासादमौढपतिमातीर्थयात्रास्नात्रोत्सवाचार्यादिपदप्रतिष्ठाप्रौढसाकिवात्सल्यशासनप्रत्यनीकोच्छेदनादिनानाविधलब्धिदर्शनादिप्रौढपुण्यकार्यकरणैर्भवति, तथा जिनेंद्रशासने अष्टधा प्रभावका भवति, यतः
पावयणी धम्मकही वाई नेमित्तिओ तवस्सी य । विज्जा सिद्धे अ कवी अहेव पभावगा भणिया ॥१॥ प्रभावनां यो जिनशासनस्य, करोति पुण्योत्सवकारिकार्यैः । मेरुपभोर्वीपतिवत्पतिष्ठां, पामोत्यसौ विश्वजनार्चनीयाम् ॥२॥ तथाहि भरतक्षेत्रे, पुरे मूर्यपुराभिधे । अरीणां दमनौजस्वी, राजाऽरिदमनोऽजनि ॥ ६॥ तस्याग्रमहिषी जज्ञे, नाम्ना मदनसुंदरी । तयोः सूनुरभून्मेरुषभो मेरुरिवोन्नतः ॥ ४ ॥ प्राणेभ्योऽपि प्रिया राज्ञः, पराऽऽसीद्रत्नमंजरी । तंदंगजो महासेननामा धामाधिकः पुनः ॥ ५॥ पापपात्रेण तन्मात्रा, स्वमूनो राजालिप्सया । धान्याऽदायि रहो मेरुप्रभस्य विषमं विषम् ॥ ६॥ परं पुण्योदयाचस्मै, तत्स्वरूपं निवेद्य सा। विषं नैव ददौ देवं, पायो जागर्ति देहिनाम् ॥७॥
यतः-बने रणे शत्रुजलाग्निमध्ये, महाणवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षति पुण्यानि पुरा कृतानि ॥८॥ अपरं रूपमादाय, ततोऽजनप्रयोगतः । असिपाणिः सुधीरुपभो देशांतरं ययौ ॥ ८॥ प्रतीच्यां स १ अलब्धपूर्वे भवोदके लभन्ते तीर्थस्य प्रभावनया । तश्विरत्वममरेन्द्रपूज्यं दशारसिंह इव श्रेणिक इव वा ॥१॥ २ प्रावचनिको धर्मकथको बादी नैमित्तिकस्तपस्वी च विद्यासिद्धः मन्त्रसिद्धश्च कविरष्टैव प्रभावका भाणताः ॥३॥
॥८९॥
A
For Private Personal Use Only
www.jainelibrary.org
Jain Education Interational

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196