Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 194
________________ शति स्थानक दिभिरनहम् । मूत्राभियगो ज्ञानोपयोगा यस्तदश्यम् ॥ ८॥ शंकादिदोषरहित, स्थैर्यादिगुणभूषितम् । शमादिलक्षणं सम्यग्दर्शनं नवमं पुनः॥९॥ ज्ञानदर्शनचारित्रोपचारैश्च चतुर्विधः। कर्मणां विनयनतो, विनयो दशमं पुनः॥१०॥ इच्छामिथ्या- 1 करणादियोगेष्वावश्यकेष्व लम्।अतीचारपरिहारो,यत्तदेकादशं तु तत् ।।११॥ अहिंसादिसमित्यादिमूलोत्तरगुणेषु या। प्रवृत्तिनिर- ° ताप तीचारा, स्थानकं द्वादशं तु तत् ॥ १२॥ शुभध्यानस्य करणं, क्षणे क्षणे लवे लवे । प्रमादपरिहारेण, स्थानमेतत्रयोदशम् ॥ १३ ॥ अनाबाधेन मनसो, वपुषश्च निरंतरम् । यथाशक्ति तपाकर्म, स्थानमेतच्चतुर्दशम् ॥ १४ ॥ अन्नादीनां प्रतकथा संविभागो, यथाशक्ति तपस्विषु । मनोवाकायध्ध्या यः , स्थानं पंचदशं हि तत् ॥ १५॥ आचार्यादीनां भक्तितो, भक्तपानासनादिभिः । वैयावृत्त्यस्य करणं, स्थानक षोडश तु तत् ॥१६॥ चतुर्विधस्य संघस्य, सर्वापायनिषेधनात् । मनःसमाधिजननं, स्थानं सप्तदशं हि तत् ॥ १७ ॥ सूत्रस्यार्थस्योभयस्याप्यपूर्वस्य प्रयत्नतः । अन्वहं यदुपादानं, स्थानमष्टादश हि तत् ॥१८॥ श्रद्धानेनोद्भासनेनाऽवर्णवादच्छिदादिना । श्रुतज्ञानस्य भक्तिस्तत् , स्थानमेकोनविंशकम् ॥१९॥ विद्यानिमित्तकवितावादधर्मकथादिभिः । प्रभावना शासनस्य , तविंशतितमं पुनः॥२०॥ इत्याश्रवा जिनवरेंद्रपदोदयस्य, कुर्वति विंशतिमिता अमितानुभावाः । चेतांसि दर्शितनिदर्शनसत्फलाच, श्रीतीर्थनाथपपदवीमुखसस्पृहाणि ॥१॥ विमोहमूढेन मया यदुक्तमहद्वचोऽतीतमिह प्रमादात् । मयि प्रसादं कृपणे विधाय, तत् शोधनीयं कृपया महद्भिः ॥ २ ॥ हमूहन योऽईत्पदानंदविधायिपुण्यप्रकाशकं ग्रंथममुं शृणोति । सोऽभीप्सितानेकसमृद्धिशालि, श्रयेत्पदं शाश्वतहर्षसौख्यम् ॥ ३॥ । तपोगच्छेऽभवद्भूना, महिना विश्वविश्रुतः । जगचंद्रगुरुः श्रीमान् , सम्यग्ज्ञानक्रियानिधिः ॥ ४ ॥ श्रीदेवेंद्रगुरु- । ॥९४॥ Jan Education Intemanong For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196